Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 146
________________ १० अरः] कौमुदीमित्राणन्दम् । ११ सिद्धाधिनाथ:-(सरभसं) पातकस्तदितरो वा। पुरुषः-तदितरः। सिद्धाधिनाथ:--( पञ्चमैरवं प्रति।) स एष मघोपचारकर्मणः प्रभावः । (पुनः पुरुषं प्रति ) गत्वा समादिश लम्बस्तनीम, यथा पश्चवाणस्यापि व्यापारी वध्यहस्तेनैव कार्यः। (पुरुषो निष्क्रान्तः ।) (नेपथ्ये) वसुधातलसंतपनस्तपनश्वरमं प्रयात्यचलमेषः । प्रियजनसङ्कटनकरं तिमिरं प्रविलुठति काष्ठमसु॥५॥ पञ्चभैरव:-देव! मात्रिकमत्रानुरूपं प्रदोष मागधः पठितवान् । सिद्धाधिनाथ:-अधितिष्ठामस्तर्हि कामायतनम् । (सर्वे परिक्रामन्ति ।) पचभैरवः देव ! स्फूर्जयावकपङ्कसंक्रमलसन्मध्यं जपासोदरै यैः कृप्तपताकसाम्रकिसलैस्ताम्रीभवत्तोरणम् । कौसुम्भर्घटितावचूलमभितो मत्तालिभिर्दामभिः सिन्दूरारुणिताङ्गणं गृहमिदं देवस्य चेतोभुवः ॥६॥ (मविश्य ) बमलावामा विहितविशेषपूजो भमषाननङ्गः । इदं च सिंहासनमास्यतां देवेन। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160