Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 158
________________ कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो बङशेन निवारितः खकरखौ - ष्ठेऽब्देऽपवादध्वना ।। ६ ।। (वसन्ततिलका) तत्पट्टके भुवनभान्वभिधश्च सूरिः श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो जातोऽतिवाक्पतिमति - मतिमच्छरण्यः ॥ ७ ॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धुतेजास्तपः श्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥ ८ ॥ साक्षाज्जिनागमनिधिः प्रथितो यतोऽस्ति, सिद्धान्तसूर्य इति यो जगतीतलेऽस्मिन् । गच्छाधिनाथपदभृज्जयघोषसूरिः, पुण्येन पुण्यनिलयो जयतीह चोच्चैः ॥ ९ ॥ सद्बुद्धिनीरधिविबोधनबद्धकक्षः वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ||१०|| कारुण्यकम्रालयानां लोकोपकारचतुराणां महोमालिनां वैराग्यदेशनादक्षाचार्यदेव श्रीमद्विजयहेमचन्द्रसूरिश्वराणां सदुपदेशेन श्रीजिनशासन आराधना ट्रस्टविहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः शिवमस्तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160