________________
कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो बङशेन निवारितः
खकरखौ - ष्ठेऽब्देऽपवादध्वना ।। ६ ।।
(वसन्ततिलका)
तत्पट्टके भुवनभान्वभिधश्च सूरिः श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो जातोऽतिवाक्पतिमति - मतिमच्छरण्यः ॥ ७ ॥
तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धुतेजास्तपः श्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥ ८ ॥
साक्षाज्जिनागमनिधिः प्रथितो यतोऽस्ति, सिद्धान्तसूर्य इति यो जगतीतलेऽस्मिन् । गच्छाधिनाथपदभृज्जयघोषसूरिः, पुण्येन पुण्यनिलयो जयतीह चोच्चैः ॥ ९ ॥
सद्बुद्धिनीरधिविबोधनबद्धकक्षः वैराग्यदेशनविधौ परिपूर्णदक्षः ।
सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ||१०||
कारुण्यकम्रालयानां लोकोपकारचतुराणां महोमालिनां वैराग्यदेशनादक्षाचार्यदेव श्रीमद्विजयहेमचन्द्रसूरिश्वराणां सदुपदेशेन श्रीजिनशासन आराधना ट्रस्टविहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः शिवमस्तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org