Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अथः प्रशस्तिः
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि - र्हस्तास्तदेवस्मयः
जिह्वाखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः ।
सर्वाङ्गीणमहोपसर्गदकृपा- नेत्राम्बुदत्ताञ्जलिः दाढादारितदिव्ययुत्समवतात् - श्री वर्धमानो जिनः ॥ १ ॥
(वसंततिलका)
श्रीवीर - गौतम-सुधर्मगणेश - जम्बूस्वाम्यादिपट्टधरसूरिगणः पुनातु । 'श्रीहेमचन्द्रयतिचन्द्र' 'जगत्सुचन्द्र'श्रीहीरसूरि-यशसश्च शिवं दिशन्तु ॥ २ ॥ एतन्महर्षिशुचिपट्टपरंपराजान्आनन्दसूरिकमलाभिधसूरिपादान् ।
---
संविज्ञसंततिसदीशपादान् प्रणम्य
श्रीवरदानचरणाँश्च गुरुन् स्तविष्ये ॥३॥ श्रीदानसूरिवरशिष्यमतल्लिका स
श्रीप्रेमसूरिरनिशं शममग्नयोगी । सिद्धान्तवारिवरवारिनिधिः पुनातु चारित्रचन्दनसुगन्धिशरीरशाली ॥४॥
( शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित् स्रष्टा क्षमाभृद्महान् गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः, सोऽभूत् स्वकीयेऽप्यहो गच्छे संयमशुद्धितत्परमतिः, प्रज्ञावतामग्रणीः ॥५॥ तत्कालीनकरग्रहग्रहविधा - वब्दे ह्यभूद् वैक्रमे तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a45f28fc42a7e318c8d1f13972c1619e767478a9165e4fd8e36abe78e4460f67.jpg)
Page Navigation
1 ... 155 156 157 158 159 160