Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
रामचन्द्रसूरिविरचितं ( नेपथ्ये )
प्रभातमाया रजनिः । इदानीमनवसरो मन्त्रस्य । सिद्धाधिनाथः - (आकर्ण्य ) पञ्चभैरव ! तर्हि ब्रूहि कुन्दलतां यथा माकिमस्माकं दर्शय । ( पञ्चभैरवो निष्क्रान्तः । )
१२६
( ततः प्रविशति कुन्दलता मानिकश्च । )
सर्वे - ( विलोक्य) कथमयं मैत्रेयः १ । मोदामहे मनोरथानामप्यगम्येन प्रियजनसङ्घटनेन ।
पुरुषः- मैत्रेय ! कथमत्र संप्राप्तोऽसि १ ।
मात्रिकः – रत्नाकरावया सह वियोजितो भ्राम्यन्
कुन्दलतामनुसृतवान् । सिद्धाधिनाथः - किं ते कुन्दलता दृष्टचरी ? |
मात्रिकः -- वरुणद्वीपे दृष्टचरी । ( पुनरौषधिवलयं सिद्धनाथस्योपनीय ) स्वेनैवौषधिद्रवेण यूयमुपशान्तमहारवेदनाः संजाताः ।
सिद्धाधिनाथ: - ( पुरुषं प्रति) कुतस्ते कण्ठिकाया लाभः १ ।
पुरुषः- पाशपाणिनेयं मह्यमुपनीता । मया च जातमरणनिश्चयेन स्मरप्रतिमापृष्ठस्थितेन युष्मत्कण्ठे विनिवेशिता ।
सिद्धाधिनाथः कौमुदी मुपहर्तु भ्राम्यन्नहं तदानीं पाशपाणिना विडम्बितः । भवान् घातहेतुश्चायं मकरन्दः कौमुदीसुमित्रानुरागिणा मयास्मिनग्निकुण्टे कामदेवपुरतो व्यापाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 153 154 155 156 157 158 159 160