Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 154
________________ १० अहः ] कौमुदीमित्राणन्दम् । १२५ पुरुषः--कथमेष मकरन्दः १ । (इति सरभसमुत्थाय परिरभते ।) सिद्धाधिनाथ: - ( पुरुषं प्रति ) कोऽयं पथिकः १ । पुरुषः - अस्मन्मित्रं सुमित्रायाः पतिरयम् । ( तापसी विलोक्य सरोमाञ्च मघोमुखीभवति । ) सिद्धाधिनाथ: - ( पथिकं प्रति ) किमर्थमत्रागमनं भवतः १ । पथिकः – विज्ञातवरुणद्वीपवृत्तान्तोऽहं मित्राणन्दव्यसनं विज्ञपयितुं युष्माकमुपस्थितोऽस्मि । सिद्धाधिनाथः - ( सपश्चात्तापं पुरुषं प्रति ) युष्माभिरेवाहमुपकृत्य स्वयमात्मा व्यसने पातितः । क्रूरः कृतोपकारः प्रत्यपकाराय कल्पते भूयः । चिरचितपाशविनाशः प्रणिहन्ति विपाशकं सिंहः ॥ १६ ॥ पुरुषः- सिद्धाधिनाथ ! मास्म विषीदः । यदि व्यसनमिदं न भवेतदानीं कथमहं सभिहितमित्रकलत्रः स्याम् । अपकारं कुर्वाणैरुपकारः कोऽपि शक्यते कर्तुम् ? । सन्ताप्य फलसमृद्धाः करोति धान्यौषधीस्तपनः ||१७|| ( सिद्धाधिनाथः सलज्जमधोमुखो भवति । ) पुरुषः- सिद्धनाथ ! प्रियसम्पर्को हया मे मैत्रेयं विना । सिद्धाधिनाथः (पञ्च भैरवं प्रति ) मूहि माचिकम् । यथा त्रिवः सर्वोऽपि सङ्घटितः परमेकोऽवशिष्यते तदर्थ प्रयतस्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160