Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 147
________________ रामचन्द्रसूरिविरचितं सिद्धाधिनाथ: - ( प्रणम्य ) जनमहितमहिम्नां विष्णुशम्भुस्वयम्भूहरिहयहिमधाम्नां दुर्यशोनाव्यबीजम् । कृततरुणिममाद्यन्मानिनीमानभङ्गः प्रथयतु महतीं नस्तां समीहामनङ्गः ॥ ७ ॥ ( पुनः सिंहासनमलङ्कृत्य सोत्कटं ) हिमकरकराकीर्णा रात्रिर्मधुः कलितोदयो गलितकुसुमैश्छन्ना भूमिः सचापकरः स्मरः । मिथुनघटनादक्षं मित्रं प्रिया प्रणयोन्मुखी विधिरयमियान्सम्पद्येत प्रसीदति वेघसि ॥ ८ ॥ ( ततः प्रविशति लम्बस्तनी आत्रेयी च । ) सिद्धाधिनाथः -- ( आत्रेयीमवलोक्य सविस्मयं ) चक्षुर्वाष्पविकज्जलं करतलव्यासङ्गखण्डश्रुति गण्डश्रीरधरः खरः प्रसृमरैः सूत्कारतारोर्मिभिः । आहारप्रतिरोधकीकसशिरामात्रा च गात्रावनि ११८ प्रीणयते तथापि सुदती लेखेव शीतत्विषः ॥९॥ लम्बस्तनी - (क) वत्से ! पणमेहि सिद्धनाई । ( आत्रेयी प्रणम्य सलज्जमधोमुखीभवति ) । सिद्धाधिनाथ: सौभाग्यद्रुममञ्जरिस्मरकरिक्रीडैकरेवावने ! लावण्यस्य तरङ्गिणि ! त्रिभुवनमहादनाचण्डिके ।। ( क ) वत्से ! प्रणम सिद्धनाथम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160