Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
९ अहः ] कौमुदीमित्राणन्दम् । १०१ (पुनर्नरदत्तं प्रति ) विज्ञपय यथार्थ विष्कम्भखरूपं देवाय ।
नरदत्तः-( सविनयं ) देव ! सुवर्णद्वीपात्मतिनिसस्य ममैकः पटचरवृत्तिर्वणिक्पुत्रः संघटितः। स च मया क्रयकोशलानुरञ्जितेन स्वसार्थे प्रधानः कृतः। स चेदानी मदीयोऽयं सार्यो न ते किमपि लभ्यमस्तीति व्याहरति ।
युवराजा-अहो ! अराजन्वती वसुमती । (पुनर्विमृश्य) अमात्य ! नैकस्य संलापश्रवणेन निर्णयः कर्तुं शक्यते । अतो द्वितीयमपि पृच्छामि। चारायणः-कोत्र भोः ? अस्मत्परिजनेषु ।
(प्रविश्य ) देवशर्मा-एषोऽस्मि ।
( चारायणः कर्णे एवमेव । ) ।
( देवशर्मा निष्क्रान्तः।) __ (ततः प्रविशति मकरन्दो देवशर्मा च । ) मकरन्दः-( सविषादमात्मगतं) विच्छेदः पितृवान्धवैः प्रवहणस्योदन्वति भ्रंशनं
माणेभ्योऽप्यधिकं प्रियेण विरहो मित्रेण पुण्यात्मना । कान्ताया नवसंगमेऽप्यपहृतिः सर्वस्वनाशोऽधुना नव्यं नव्यमुदति कन्दलमहो! प्रातीपिके वेधसि ॥४॥ खलुकृत्वा नातीतव्यसनशोचनम् । आजन्म यानि जायन्ते व्यसनानि सहस्रशः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160