Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१० भकः ] कौमुदीमित्राणन्दम् ।
वज्रवर्मा-सर्वमहं रजन्यां विज्ञपयिष्यामि। इदानीं पुनर्मध्याह्रसन्ध्यामाधातुं प्रयातु देवः । मित्राणन्दोऽप्यध्वअममपनयताम् । चारायणः-देव ! यदभिधत्ते वज्रवर्मा तदस्तु ।
( इति निष्कान्ताः सर्वे ।) ॥ नवमोऽङ्कः समतः॥
॥ अथ दशमोऽङ्कः॥
(ततः प्रविशति पञ्चभैरवः ।) पञ्चभैरवः-(उच्चेःस्वरं ) हंहो विद्याधराः ! स्वयं रत्नकूटाधिपतिर्वः समादिशति । द्रुतमाकारयत दक्षिणात्रमवासिनी लम्बस्तनीम् । तौ च वध्यौ कुतोऽपि गवेषयित्वा समानयत । पुरुषोत्तमं च तं जीवितदायिनं संघटयत ।
(नेपथ्ये) यदादिशति सिद्धपरमेश्वरस्तदचिरादेव सम्पादयामि । पचभैरव:-तर्हि गत्वा विनपयामि सिद्धाधिपतये । (इति परिकामति । विलोक्य ) कयमियमुत्तराश्रमवासिन्याः कुन्दलतायास्तापसी क्षेमकरी।
(प्रविश्य )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160