Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
९ अरः] कौमुदीमित्राणन्दम् । ( प्रतीहारो मकरन्दं केराकृष्य श्वपाकायोपनयति ।)
(नेपथ्ये) अलमलं करेण कर्मणा। युवराजः-(सक्रोधं) अरे! कोऽयं कृतान्तवदनं स्पृहयातुरस्मदाझा प्रतिरुणद्धि ।
प्रतीहारः-देव ! व्याघ्रमुखीपतिर्वज्रवर्मा युष्मदाज्ञा प्रतिरुणदि।
युवराजः-(सदर्प ) अस्मदाज्ञां प्रतिरोदं शक्तिरस्ति पदातिपांशोर्वज्रवर्मण ? । ( पुनः श्वपाकं प्रति ) आरोपय शूलमेतं दुरात्मानम् ।
(श्वपाको मकरन्दमुत्क्षिपति ।)
(नेपथ्ये) अहो ! अब्रह्मण्यमब्रह्मण्यम् । अहह ! पापकारित्वं । युवराजः-(साक्षेपं ) अरे ! कोऽयमस्मान् भूवो भूयस्तिरस्करोति ।
(प्रविश्य वज्रवर्मणा सह ) मित्राणन्दः कुमार ! कोऽयं विचारव्यामोहः ।
युवराज:-( प्रत्यभिज्ञाय ) कयमयमस्मत्माणस्वामी मित्रानन्दः १ । ( पुनः स्वसिंहासने समुपवेश्य ) आर्य ! किं ववाऽयं मकरन्दः । मित्राणन्दः-अमाऽयं भ्राता मकरन्दः । युवराजः-अरे बर ! किमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160