SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ९ अहः ] कौमुदीमित्राणन्दम् । १०१ (पुनर्नरदत्तं प्रति ) विज्ञपय यथार्थ विष्कम्भखरूपं देवाय । नरदत्तः-( सविनयं ) देव ! सुवर्णद्वीपात्मतिनिसस्य ममैकः पटचरवृत्तिर्वणिक्पुत्रः संघटितः। स च मया क्रयकोशलानुरञ्जितेन स्वसार्थे प्रधानः कृतः। स चेदानी मदीयोऽयं सार्यो न ते किमपि लभ्यमस्तीति व्याहरति । युवराजा-अहो ! अराजन्वती वसुमती । (पुनर्विमृश्य) अमात्य ! नैकस्य संलापश्रवणेन निर्णयः कर्तुं शक्यते । अतो द्वितीयमपि पृच्छामि। चारायणः-कोत्र भोः ? अस्मत्परिजनेषु । (प्रविश्य ) देवशर्मा-एषोऽस्मि । ( चारायणः कर्णे एवमेव । ) । ( देवशर्मा निष्क्रान्तः।) __ (ततः प्रविशति मकरन्दो देवशर्मा च । ) मकरन्दः-( सविषादमात्मगतं) विच्छेदः पितृवान्धवैः प्रवहणस्योदन्वति भ्रंशनं माणेभ्योऽप्यधिकं प्रियेण विरहो मित्रेण पुण्यात्मना । कान्ताया नवसंगमेऽप्यपहृतिः सर्वस्वनाशोऽधुना नव्यं नव्यमुदति कन्दलमहो! प्रातीपिके वेधसि ॥४॥ खलुकृत्वा नातीतव्यसनशोचनम् । आजन्म यानि जायन्ते व्यसनानि सहस्रशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy