________________
रामचन्द्रसूरिविरचितं जनुषाधा न पश्यन्ति भावान्केवलमैहिकान् । ऐहिकामुष्मिकान्कामकामलान्याः पुनर्जनाः ॥३॥ युवराजः-ततः परं च रत्नाकरभङ्गेन तस्य किमपि संवृत्तमिति न जानीमः । तत्पत्नी पुनः कौमुदी व्याघ्रमुख्यां तिष्ठतीत्यस्ति किंवदन्ती।
(प्रविश्य ) प्रतीहार:-देव ! देशान्तरतः समायातो नरदत्तः सार्थवाहो युवराजपादान्द्रष्टुमभिलषति ।
चारायणः-देव ! क्रमागतविभूतिमहानयं नरदत्तः सावाहस्तदनु महता गौरवेण देवो द्रष्टुमर्हति । युवराजः--( सादरं ) त्वरिततरं प्रवेशय । (ततः प्रविशति उपायनीकृतरत्नभृतभाजनहस्तेन
पुरुषेणानुगम्यमानो नरदत्तः ।) ( नरदत्त उपायनभाजनमुपनीय प्रणमति ।) युवराजः-( ससम्भ्रमं) क्षेमं यात्रिकाः ! समायाताः स्व? । निरुपद्रवः सर्वोऽपि साथलोकः ?!
नरदत्तः-देवस्य विक्रमबाहोर्युवराजस्य च लक्ष्मीपतेः प्रभावेन ।
चारायणः-देव ! वेलन्धरमशेषमपि नरदत्तस्य यानपात्रयातायातैः समृद्धवैभवम् ।
युवराज:-चेलन्धराभ्यर्णमशेषोऽपि सार्यः प्रविष्टः । चारायणः-देव ! सार्थस्य कियानपि विष्कम्भोऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org