________________
९ अङ्कः ]
कौमुदीमित्राणन्दम् ।
अनङ्गसेनाया वपुषि सावधानेन भाव्यम् । ( कचुकी निष्क्रान्तः । ) ( नेपथ्ये ) सरसिजवनमपबन्धं दिशो वितमसो दृशः प्रकटभावाः । अवतरति नभोमित्रे वसुधायां कस्य नानन्दः १ ॥ १ ॥ चारायणः - देव! शुभोदर्क मित्रोदयं मागधः पठितवान् । युवराजः - अमात्य ! मित्राणन्दशब्दयोराकर्णनादुदेजिताः स्मः ।
पूर्जम्भारिपुरोपमानममरस्तम्बेरमस्पर्धिनो
नागाः सूर्यतुरङ्गनिर्जयजवैर्विभ्राजिनो वाजिनः । राज्यश्रीककुदं तदेतदखिलं यन्मत्रलीलायितं
तस्याहिद्वितयीं शिरस्यव हतो धिग्नः कृतघ्नानिमान् ॥२॥ ( पुनर्विमृश्य) अमात्य ! वचस्विनामवाच्यं श्रद्धालूनामश्रदेयं महीयसामश्रोतव्य मैहिकामुष्मिकापायप्रत्यवमर्शवन्ध्यमतिना कामरतिना पश्य कीदृशमनुष्ठितम् ? ।
चारायणः - देव ! किमनुष्ठितवानमात्यः कामरतिः १ ।
युवराजः - अस्माकं जीवितैकनिदानं मित्राणन्दाभिधानं तत्पत्नीमभिलाषुकः कामरतिः स्वनगरं प्रति प्रस्थापितो मित्राणन्द इति प्रवादं विधाय विजयवर्मणे व्यापादयितुमुपनीतवान् । बारायणः - देव !
-
Jain Education International
९९
For Private & Personal Use Only
www.jainelibrary.org