________________
१०२ रामचन्द्रसूरिविरचितं
स्मर्यन्ते तानि चेनित्यं कोऽवकाशस्तदा मुदाम् ॥५॥ भवतु, प्रणमामि । युवराजः-अये वाणिज्यकारक ! किं निदानोऽयं नरदत्तेन सह विवादः ।
मकरन्दः-( सविनयं ) देव ! सुवर्णद्वीपात्प्रतिनिवृत्तस्य ममायं पटच्चरवृत्तिरदत्तः संघटितः । क्रयविक्रयकौशलानुरजितेन च मया स्वसार्थे प्रधानः कृतः । अयं चेदानी मदीयोऽयं सार्थो न ते किमपि लभ्यमस्तीति व्याहरति ।
(युवराजः स्मित्वा चारायणमुखमवलोकयति । ) चारायणः-देव ! क्रमागतोऽयं नरदत्तस्तदस्य सत्येषु नः सम्पति प्रतिपत्तिरस्ति । देशान्तरिणः पुनरस्य स्वरूपं नावगच्छामः। युवराजः-अमात्य! समूलकार्ष कषतां द्विषन्मही
शिशून् पितृभ्यां हरतां च निर्दयम् । अपक्षपातेन यदर्यनिर्णय
स्तदेव धर्मः किमपि क्षमाभुजाम् ॥६॥ चारायणः ततः किम् । युवराजःसमानशीलसंतानयुक्तिव्यापारयोईयोः । विना विशेषधिहेन युक्तो नैकत्र निर्णयः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org