SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ९ अरः] कौमुदीमित्राणन्दम् । मकरन्दः-देव! विशेषचितमप्यस्ति । युवराजा-कोऽवकाशस्वर्हि विवादस्य । मकरन्दः-देव! सुवर्णेष्टिकासम्पुटानि यानि तानि सर्वाग्यपि मन्नामाङ्कितानि । युवराजः-देवधर्मन् ! ससुवर्णसम्पुटं सुवर्णकारमाकारय। (देवशर्मा निष्क्रान्तः ।) (प्रविश्य सुवर्णकारः सम्पुटान्युपनयति । ) युवराज:-(सर्वतोऽवलोक्य) कथं न कुत्राप्यभिधानम् । (पुनः साक्षेप ) अरे ! कोऽयमसत्यालापः । मकरन्दःद्वेषा विधाप्य सम्पुटानि मध्यमवलोकयतु देवः। युवराजः-( तथा कृत्वा मध्यमवलोक्य च सविस्मयं) कयमुभयतोऽपि सम्पुटेषु मकरन्दाभिधानम् १ । (पुनः साक्षेपममात्यं प्रति ) क्रमागतस्य नरदत्तस्यायमीहशो युष्माकं सत्यमत्ययः। नरदत्त:-( सविनयं ) देव ! विज्ञपनीयमस्ति। युवराज:-( साक्षेपं) अतः परमपि किमपि विज्ञपनीयमस्ति । भवतु, विज्ञपय । नरदत्तः-देव! बाल्येऽपि मे पिता विपनः । इदानीमहमनुजवायं द्वावेव कुटुम्बे पुरुषो। युवराजा-ततः किम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy