SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं नरदन्तः — अहमपि निरपत्यः, भ्रातैव मे अपत्यम् । सदस्यैव गाम्ना क्रेयं च वस्तु । अयं च मकरन्दाभिधानः । अत्र चार्थेऽमात्यः पौरलोकच प्रमाणम् । 'चारायणः -देव ! अयमुपायनभाजनवाही भ्राताऽस्य मकरन्दाभिधानः । युवराजः कोऽत्र भोः ! । ( प्रविश्य ) प्रतीहारः - आदिशतु देवः । युवराजः - कियतोऽपि वणिजः समाहय । ( प्रतीहारो निष्क्रान्तः ) ( प्रविश्य कृतोष्णीषाः पञ्चषा वणिजः प्रणमन्ति । ) युवराजः - तातस्य विक्रमबाहोराज्ञा भवतां यदि पक्षपातेन वदत । ततः कथयत को नरदत्तस्य भ्राता ? किमभिधानश्च १ । वणिजः - ( सभयं ) देव ! नरदत्तस्यायं भ्राता मकरन्दाभिधानः । ( युवराजः साटोपं मकरन्दमवलोकयति । ) मकरन्दः -- ( सदुःखमात्मगतं ) प्रत्यहं नव्यनव्याभिर्भवन्तीभिर्विपत्तिभिः । आस्तां नाम परस्तावदात्मापि मम भग्नवान् ॥ ८ ॥ ( प्रकाशं ) देव ! अपरमप्यभिज्ञानमस्ति । इला मे गोत्रदेवता । तदभिधानेनापरमिलादत्त इत्यपि नाम । ततः किय www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy