Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 134
________________ कौमुदीमित्राणन्दम् । १०५ सम्पुटानीलादचनामाङ्कितानि । ततस्तान्यपि विलोक ९ अङ्कः ] न्त्यपि यतु देवः । युवराज : --- ( तथा कृत्वा ) कथमेतानि इलादत्तनामाङ्कितानि १ । ( पुनः सरोषं नरदचं प्रति ) अतः परमपि विज्ञप्यमवशिष्यते किमपि ? | नरदत्तः -- ( सावष्टम्मं ) अवशिष्यते । युवराज : - ( विहस्य ) त्वरिततरं विज्ञपय । नरदत्तः–देव ! इलादत्ताभिधानो मे भागिनेयः, ततः सुवर्णद्वीपस्थितेन मया सोमपरिवेषपर्वणि सम्पुटानां शतमष्टोचरं तन्नामाङ्कितं कृतम् । अत्राप्यर्थे पौरलोकः प्रमाणम् । ( युवराजो वणिजां मुखान्यवलोकयति । ) वणिजः - अस्तीलादत्ताभिधानो नरदत्तभांगिनेयः । युवराजः - ( साक्षेपं मकरन्दं प्रति ) अरे दाम्भिक ! कूटप्रयोगैरस्माकं वणिजां च दुष्कीर्तिमुत्पादयसि १ । मकरन्दः - ( सावष्टम्भं ) उपायनीकृतरत्नानां प्रभावातिशयं नरदत्तमापृच्छतु देवः । युवराज : - नरदत्त ! कस्य रत्नस्य कः प्रभावातिशयः । । नरदत्त : - ( सक्षोभं ) देव ! सर्वाण्यपि रत्नानि सप्रभाचाणि । परं न कदाचिदपि निरूपितप्रत्ययानि । युवराज : --- ( नरदत्तं प्रति ) यदि त्वदीयानि रत्नानि तदा निस्सन्देहमभिदधीयाः । १ स ' भाषः ' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160