Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
८ अहः] कौमुदीमित्राणन्दम् । कापालिक:-मायामय ! उपनय पुरुषवपुषः करवाळन् ।
(मायामयस्तथाकरोति ।) (कापालिकः वसारसोपलिप्तान्यत्रखण्डानि जुहोति ।) मकरन्दः-(स्वगतं) अपि नाम कोऽप्यपायः सम्भवेत, तदहं परमेष्ठिनामपवित्रं मत्रं स्मरामि । ( पुनः साशकं) कथं प्रहसति प्रचलति च पुरुषः ।
कापालिक:-( मकरन्दं प्रति ) समय इदानीं शवोत्थानस्य । ततस्त्वया सावधानेन भवितव्यम् । ( पुरुषस्य वपुः करवालमादाय मकरन्दाभिमुखं कतिचि
त्पदानि दत्त्वा पुनर्मण्डलमध्ये निपतति ।) कापालिकः-( ससम्भ्रमं) किमपि दैवतं स्मरबसि । मकरन्दः-न किमपि स्मरामि । ( कापालिकः सविशेषमन्त्रखण्डानि जुहोति ।)
( पुनः पुरुष उत्थाय तथैव निपतति ।) कापालिकः-(साक्षेपं ) महाभाग ! किमिति कमपि दैवतं स्मृत्वा होमभङ्गं करोषि ।
मकरन्दः-सर्वथा नाहं किमपि स्मरामि । (कापालिकः पुनः साक्षेपं मन्त्रमुच्चारयन्नव्रखण्डानि जुहोति।) (पुनः पुरुषवपुर्मकरन्दाभिमुखं गत्वा प्रतिनिवृत्य च
करवालेन कापालिकमभिहन्ति।) ( कापालिक आक्रन्दमाधाय तिरोषत्ते ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160