Book Title: Kaumudi Mitranand Nataka
Author(s): Ramchandrasuri, Punyavijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
रामचन्द्रसूरिचिरचितं
कापालिक:-त्वया समाकष्टकराळकरवाळेन निकम्पमनसा होमशवस्य पुरतः स्थातव्यम् । होममण्डलेच नापरस्य मनस्य वा दैवतस्य वा कस्यापि प्रवेशः समुचित इति न त्वया प्रतिभयाकुलेन मनसि किमपि ध्यातव्यम् । मकरन्दः-एवं करिष्यामि ।
(प्रविश्य ) मायामयः-भगवन् ! सर्व प्रगुणमेव पूजोपकरणम् । सदागच्छत होमवेदिकाम् ।
(सर्वे परिकामन्ति ।) मायामयःएतानि होमविषये ज्वलितानलानि
कुण्डानि सैष बनसैरिभपुच्छदीपः । एतद्पुश्च पुरुषस्य सलक्षणस्य
निर्जीवमेष पुनरत्रवसोपहारः ॥ १२ ॥ कापालिक:-पुरुषस्य वपुः क वर्तते । (प्रविश्य बटुः पुरुषस्य वपुर्मण्डलमध्ये विमुच्य निष्क्रान्तः।)
कापालिक:-(पुरुषवपुषः कुण्डानां च पूजां विधाय मकरन्दं प्रति)
मत्रापविद्धं यद्येतद्वपुर्धाम्यति मण्डले । तथापि न त्वया स्वानात् कम्पनीयमितस्ततः ॥ १३ ॥ मकरन्दः-आवश्यकमेतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160