SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ८ अहः] कौमुदीमित्राणन्दम् । कापालिक:-मायामय ! उपनय पुरुषवपुषः करवाळन् । (मायामयस्तथाकरोति ।) (कापालिकः वसारसोपलिप्तान्यत्रखण्डानि जुहोति ।) मकरन्दः-(स्वगतं) अपि नाम कोऽप्यपायः सम्भवेत, तदहं परमेष्ठिनामपवित्रं मत्रं स्मरामि । ( पुनः साशकं) कथं प्रहसति प्रचलति च पुरुषः । कापालिक:-( मकरन्दं प्रति ) समय इदानीं शवोत्थानस्य । ततस्त्वया सावधानेन भवितव्यम् । ( पुरुषस्य वपुः करवालमादाय मकरन्दाभिमुखं कतिचि त्पदानि दत्त्वा पुनर्मण्डलमध्ये निपतति ।) कापालिकः-( ससम्भ्रमं) किमपि दैवतं स्मरबसि । मकरन्दः-न किमपि स्मरामि । ( कापालिकः सविशेषमन्त्रखण्डानि जुहोति ।) ( पुनः पुरुष उत्थाय तथैव निपतति ।) कापालिकः-(साक्षेपं ) महाभाग ! किमिति कमपि दैवतं स्मृत्वा होमभङ्गं करोषि । मकरन्दः-सर्वथा नाहं किमपि स्मरामि । (कापालिकः पुनः साक्षेपं मन्त्रमुच्चारयन्नव्रखण्डानि जुहोति।) (पुनः पुरुषवपुर्मकरन्दाभिमुखं गत्वा प्रतिनिवृत्य च करवालेन कापालिकमभिहन्ति।) ( कापालिक आक्रन्दमाधाय तिरोषत्ते ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy