Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 191
________________ श्रीकल्पकौमुद्यां ७क्षणे ॥१८५॥ श्रेयांसस्तान् कथयति-भो जना! एवं भिक्षा दीयते, लोकाः पृच्छन्ति स-भवता कथं ज्ञाती, स पाह-जातिस्मरणेनेति, तेषां श्रीऋषभस्वमानामिदमेव फलं यत् प्रभोभिक्षा प्रदत्ता, इति भरतक्षेत्रे श्रेयांसतः प्रथमं दानप्रवृत्तिर्जाता, ततः सर्वेऽपि लोकाः-रिसहेससमं चरित्रे पत्तं निरवजं इक्खुरससमंदाणं । सेयंससमो भावो हविज जइ मग्गि हुन्जा ॥१॥" इत्यादि स्तुवन्तः स्वस्थानं गताः। अन्यदा धर्मचक्र |च स्वामी बहलीदेशे तक्षशिलानगरी प्राप्तः, सन्ध्यायां बाहुवलेर्वर्द्धापने दत्ते प्रातः सर्वद्धर्या तातं वन्दिष्यामीति रात्रिमतिक्रम्य । प्रभाते सर्वद्धर्था गतः, प्रभुश्चान्यत्र विचरितः, अपश्यंश्च प्रभुं महतीमसन्तुष्टिं कृत्वा यत्र प्रभुः कायोत्सर्गे स्थितस्तत्राष्टयोजनपरि-1 |मण्डलं पञ्चयोजनोच्चं सर्वरत्नमयं धर्मचक्रचिह्नं चकार, रक्षकाणां सहस्रं च तत्र मुक्तवान् । ____ एवं दीक्षादिनादारभ्य प्रभोः वर्षसहस्रं छद्मस्थकालः, तत्र निद्राप्रमादकालोऽहोरात्रं, एवं क्रमेण विहरतो वर्षसहस्रान्ते विनी| तानगरीपार्श्ववर्तिपुरिमतालनगरे केवलज्ञानमुत्पन्नं, भरतस्यापि राज्ञ आयुधशालायां चक्ररत्नमप्युत्पन्न, द्वयोः समकालं वर्द्धापने समागते चक्रं त्विहलोकफलदं तातस्तूभयलोकानन्तसुखद इति विचार्य प्रत्यहमुपालम्भान् ददन्तीं मरुदेवी हस्तिस्कन्धे निवेश्याग्रे कृत्वा सर्वद्धर्या वन्दनाय निर्गतः, प्रत्यासन्ने च समवसरणे हे मातः! पश्य स्वपुत्रद्धिम् , अस्याः कोटिशतभागाऽपि ऋद्धिर्मम नास्तीति भरतवचनं देवदुन्दुभिप्रमुखवादित्रादिशब्दांश्च श्रुत्वा हर्षोत्कर्षरोमाञ्चिताङ्गी हर्षाश्रुपूरप्लावितमलनिर्मललोचना मरुदेवी प्रभोछत्रातिच्छत्रचामरादिश्रियं दृष्ट्वा चिन्तयत्-धि मोहव्याकुलान् जीवान् , सर्वेऽपि प्राणिनः स्वार्थे स्नेहं धरन्ति, यतःऋषभवियोगेन रुदन्त्या मम लोचने तेजोहीने जाते, असौ तु एवंविधां लक्ष्मी भुञ्जानोऽपि मम नामापि न पृच्छति, मम दुःखंच न जानाति, सुखवार्तासन्देशकमपि न प्रेषयति, अहो अस्य वीतरागत्वं, नीरागे कः प्रतिबन्धः ?, एवं सर्वत्र निर्ममत्वं भावयन्ती ॥१८५॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246