________________
श्रीकल्पकौमुद्यां ७क्षणे ॥१८५॥
श्रेयांसस्तान् कथयति-भो जना! एवं भिक्षा दीयते, लोकाः पृच्छन्ति स-भवता कथं ज्ञाती, स पाह-जातिस्मरणेनेति, तेषां
श्रीऋषभस्वमानामिदमेव फलं यत् प्रभोभिक्षा प्रदत्ता, इति भरतक्षेत्रे श्रेयांसतः प्रथमं दानप्रवृत्तिर्जाता, ततः सर्वेऽपि लोकाः-रिसहेससमं चरित्रे पत्तं निरवजं इक्खुरससमंदाणं । सेयंससमो भावो हविज जइ मग्गि हुन्जा ॥१॥" इत्यादि स्तुवन्तः स्वस्थानं गताः। अन्यदा
धर्मचक्र |च स्वामी बहलीदेशे तक्षशिलानगरी प्राप्तः, सन्ध्यायां बाहुवलेर्वर्द्धापने दत्ते प्रातः सर्वद्धर्या तातं वन्दिष्यामीति रात्रिमतिक्रम्य ।
प्रभाते सर्वद्धर्था गतः, प्रभुश्चान्यत्र विचरितः, अपश्यंश्च प्रभुं महतीमसन्तुष्टिं कृत्वा यत्र प्रभुः कायोत्सर्गे स्थितस्तत्राष्टयोजनपरि-1 |मण्डलं पञ्चयोजनोच्चं सर्वरत्नमयं धर्मचक्रचिह्नं चकार, रक्षकाणां सहस्रं च तत्र मुक्तवान् । ____ एवं दीक्षादिनादारभ्य प्रभोः वर्षसहस्रं छद्मस्थकालः, तत्र निद्राप्रमादकालोऽहोरात्रं, एवं क्रमेण विहरतो वर्षसहस्रान्ते विनी| तानगरीपार्श्ववर्तिपुरिमतालनगरे केवलज्ञानमुत्पन्नं, भरतस्यापि राज्ञ आयुधशालायां चक्ररत्नमप्युत्पन्न, द्वयोः समकालं वर्द्धापने समागते चक्रं त्विहलोकफलदं तातस्तूभयलोकानन्तसुखद इति विचार्य प्रत्यहमुपालम्भान् ददन्तीं मरुदेवी हस्तिस्कन्धे निवेश्याग्रे कृत्वा सर्वद्धर्या वन्दनाय निर्गतः, प्रत्यासन्ने च समवसरणे हे मातः! पश्य स्वपुत्रद्धिम् , अस्याः कोटिशतभागाऽपि ऋद्धिर्मम नास्तीति भरतवचनं देवदुन्दुभिप्रमुखवादित्रादिशब्दांश्च श्रुत्वा हर्षोत्कर्षरोमाञ्चिताङ्गी हर्षाश्रुपूरप्लावितमलनिर्मललोचना मरुदेवी प्रभोछत्रातिच्छत्रचामरादिश्रियं दृष्ट्वा चिन्तयत्-धि मोहव्याकुलान् जीवान् , सर्वेऽपि प्राणिनः स्वार्थे स्नेहं धरन्ति, यतःऋषभवियोगेन रुदन्त्या मम लोचने तेजोहीने जाते, असौ तु एवंविधां लक्ष्मी भुञ्जानोऽपि मम नामापि न पृच्छति, मम दुःखंच न जानाति, सुखवार्तासन्देशकमपि न प्रेषयति, अहो अस्य वीतरागत्वं, नीरागे कः प्रतिबन्धः ?, एवं सर्वत्र निर्ममत्वं भावयन्ती ॥१८५॥