Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीकल्पकौमुद्यां
अधिकमासचर्चा
९क्षणे
॥२१२॥
IIm Rumal IMITEINDIARRIERRIALSHASHIFammar
GITRNE Imalini
यत्र कुत्रापि पर्युषणाधिकारस्तत्र भाद्रपदप्रतिबद्धतैव, न तु क्वापि सिद्धान्ते वर्द्धितमासे श्रावणप्रतिबद्धा पर्युषणोक्ताऽस्ति । यस्तु किमधिकमासः काकेन भक्षितः ? किमु तस्मिन् मासि पापं न भवति? किंवा बुभुक्षा न लगतीति उपहास्यवाक्यं वदति स स्वकीयं भूताविष्टत्वं प्रकटयति, अन्यथा वर्द्धितवर्षे क्षामणाधिकारे पञ्चभिर्मासैः चउण्हं मासाणं अट्ठण्हं पक्खाणं त्रयोदशभिर्मासैः बारसहं मासाणं चउवीसहं पक्खाणं तिथिवृद्धौ च षोडशभिर्दिवसैः पण्हरसण्हं दिवसाणमिति कथं वक्ति ?, पुनर्नवकल्पविहारादिलोकोत्तरेषु 'आसाढे मासे दुपये ति सूर्यचारे लोकेऽपि चाक्षततृतीयादीपालिकादिषु च वर्द्धितमासो नाद्रियते, तथा ज्योतिःशास्त्रे वर्द्धितमासस्याप्रमाणत्वेन तत्र शुभकार्याणि निषिद्धानीति । ननु तर्हि तस्मिन् मासे देवपूजासाधुदानप्रतिक्रमणादीन्यपि च न कार्याणि , तत्कार्याणामप्यप्रमाणत्वादिति चेत् मैवं, यतो न हि तानि मासप्रतिबद्धानि, किन्तु दिनप्रतिवद्धान्येव, तेन यंकञ्चन |दिनं प्राप्य कर्त्तव्यान्येव, यानि च भाद्रपदादिमासप्रतिबद्धानि तानि तु तद्वये जाते प्रथममप्रमाणं परित्यज्य द्वितीये प्रमाणमासे तत्प्रतिबद्धानि कार्याणि कार्याण्येवेति, चेन्न मन्यसे तर्हि भतोऽधिकाः सहकारादयः, अपिच-वर्द्धितमप्रमाणमासं परित्यज्य प्रमाणमासे एव ते पुष्यन्ति फलन्ति च, अत एव देवमायया अकालफलितः सहकारः शिक्षितः, यतः-"जइ फुल्ला कणिआरिआ चूअग! अहिमासयम्मि घुट्टम्मि । तुह न खमं कुल्लेउं जइ पच्चंता करिति डमराई ॥१॥" इति आवश्यकनियुक्ताविति सङ्केपः, विस्तरस्तु श्रीकल्पकिरणावल्यां ज्ञेयः। तत्र द्रव्य१ क्षेत्र२ काल३ भाव४ स्थापना यथा, द्रव्यस्थापना तृणडगलमल्लकच्छारादीनां परिभोगः, सच्चित्तादीनां च परिहारः, तत्र सचित्तं शैक्षो न दीक्ष्यते अतिभाविनं च राजानं राजमन्त्र्यायं वा विना, | अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं सौपधिकः शिष्यः१, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे चत्वारि
112

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246