Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 235
________________ श्रीकल्पकौमुद्यां ९क्षणे ॥२२९॥ *वासावासं० भिक्खू इच्छिजा (अन्नयरं उरालं) अन्यतरत् प्रधानं ( कल्लाणं) कल्याणं सुखकारि (सिवं ) शिवं - उपद्रवनिवारकं ( धन्नं) धन्यं - धनहेतुं (मंगल्लं) माङ्गल्यं पापप्रणाशहेतुं (सस्सिरिअं शोभासहितं ( महाणुभावं ) महान् अनुभावः- प्रभावो यस्यैवंविधं ( तवोकम्मं ) अर्द्धमासिकादितपोऽपि आज्ञयैव *उवसंपरित्ताणं विहरित्तए, तं वेव सबं | भाणिअव्वं ॥ ५० ॥ *वासावासं० भिक्खू इच्छिज्जा (अपच्छिममारणंतिअसंलेहणा) अपश्चिमं - चरमं मरणं तदेवान्तः २ तत्र भवा अपश्चिममारणान्तिकी सा चासौ सँल्लिख्यते - कृशीक्रियते शरीरकषायाद्यनयेति संलेखना तस्याः (झूसणाझूसिए) सेबनया शोषितशरीरः, अत एव (भत्तपाणपडिआ इक्खिए ) प्रत्याख्यातभक्तपानः ( पाओवगए) कृतपादपोपगमनः, अत एव (कालं) मरणं जीवितमरणयोर्वा कालं (अणवकखमाणे विहरित्तए वा ) अनभिवाञ्छन् विहर्तुमिच्छेत्, तदपि गुरुमापृच्छथैवेति, *निक्खमित्तए वा पविसित्तए वा असणं वा४ आहारित्तए ( उच्चारं ) वृद्धनीतिं (पासवणं) लघुनीतिं च (परिट्ठावित्तए) परिष्ठापयितुं (धम्मजागरिअं वा ) धर्मध्यानेन जागरणं-प्रवर्त्तनं धर्मजागरिका तां (जागरित्तए) जागरितुं कर्तुमप्यापृच्छयैव कल्पते, नो से कप्पइ अणापुच्छित्ता तं चैव ॥ ५१ ॥ *वासावासं० भिक्खू इच्छिजा (वत्थं वा ) वस्त्रं (पडिग्गहं वा ) पात्रं कंबलं वा (पायपुंछणं वा ) रजोहरणं (अनयरिं वा उवहिं) अन्यतरमुपधिं वा (आयावित्तए) एकवारमातपे दातुं (पयावित्तए) वारं वारमातपे दातुमिच्छेत्, आतापनेन विना दुर्गन्धादिना निन्दापनकादयो दोषाश्च स्युः, तदा चोपधावातपे दत्ते (नो से कप्पइ एगं वा अणेगं वा अप तपः संलेखनाविधिः ॥२२९॥

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246