SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां अधिकमासचर्चा ९क्षणे ॥२१२॥ IIm Rumal IMITEINDIARRIERRIALSHASHIFammar GITRNE Imalini यत्र कुत्रापि पर्युषणाधिकारस्तत्र भाद्रपदप्रतिबद्धतैव, न तु क्वापि सिद्धान्ते वर्द्धितमासे श्रावणप्रतिबद्धा पर्युषणोक्ताऽस्ति । यस्तु किमधिकमासः काकेन भक्षितः ? किमु तस्मिन् मासि पापं न भवति? किंवा बुभुक्षा न लगतीति उपहास्यवाक्यं वदति स स्वकीयं भूताविष्टत्वं प्रकटयति, अन्यथा वर्द्धितवर्षे क्षामणाधिकारे पञ्चभिर्मासैः चउण्हं मासाणं अट्ठण्हं पक्खाणं त्रयोदशभिर्मासैः बारसहं मासाणं चउवीसहं पक्खाणं तिथिवृद्धौ च षोडशभिर्दिवसैः पण्हरसण्हं दिवसाणमिति कथं वक्ति ?, पुनर्नवकल्पविहारादिलोकोत्तरेषु 'आसाढे मासे दुपये ति सूर्यचारे लोकेऽपि चाक्षततृतीयादीपालिकादिषु च वर्द्धितमासो नाद्रियते, तथा ज्योतिःशास्त्रे वर्द्धितमासस्याप्रमाणत्वेन तत्र शुभकार्याणि निषिद्धानीति । ननु तर्हि तस्मिन् मासे देवपूजासाधुदानप्रतिक्रमणादीन्यपि च न कार्याणि , तत्कार्याणामप्यप्रमाणत्वादिति चेत् मैवं, यतो न हि तानि मासप्रतिबद्धानि, किन्तु दिनप्रतिवद्धान्येव, तेन यंकञ्चन |दिनं प्राप्य कर्त्तव्यान्येव, यानि च भाद्रपदादिमासप्रतिबद्धानि तानि तु तद्वये जाते प्रथममप्रमाणं परित्यज्य द्वितीये प्रमाणमासे तत्प्रतिबद्धानि कार्याणि कार्याण्येवेति, चेन्न मन्यसे तर्हि भतोऽधिकाः सहकारादयः, अपिच-वर्द्धितमप्रमाणमासं परित्यज्य प्रमाणमासे एव ते पुष्यन्ति फलन्ति च, अत एव देवमायया अकालफलितः सहकारः शिक्षितः, यतः-"जइ फुल्ला कणिआरिआ चूअग! अहिमासयम्मि घुट्टम्मि । तुह न खमं कुल्लेउं जइ पच्चंता करिति डमराई ॥१॥" इति आवश्यकनियुक्ताविति सङ्केपः, विस्तरस्तु श्रीकल्पकिरणावल्यां ज्ञेयः। तत्र द्रव्य१ क्षेत्र२ काल३ भाव४ स्थापना यथा, द्रव्यस्थापना तृणडगलमल्लकच्छारादीनां परिभोगः, सच्चित्तादीनां च परिहारः, तत्र सचित्तं शैक्षो न दीक्ष्यते अतिभाविनं च राजानं राजमन्त्र्यायं वा विना, | अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं सौपधिकः शिष्यः१, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे चत्वारि 112
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy