Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीकल्पकौमुद्यां ७क्षणे ॥१८४॥
RandituRITamas PAANIHIRAIN
श्रीऋषभ
चरित्रे श्रेयांसदानं
प्रभपुत्रेण श्रेयांसेन श्यामवणों मेरुरमृतेन मया स्वपितोऽतीव शोभितवान् , सुबुद्धिनाम्ना नगरश्रेष्ठिनाऽपि सूर्यमण्डलाष्टं किरणसहस्रं श्रेयांसेन पुनस्तत्र स्थापितं तदतीव शोभितं, राजाऽपि च कश्चिदेको महापुरुषो वैरिसेनया युद्धं कुर्वन् श्रेयांससाहाय्येन | | जयं प्राप्तः, इति स्वमान् दृष्ट्वा प्रातस्त्रयोऽपि सभायां खस्वस्वमानिवेद्य श्रेयांसस्य कश्चिन् महल्लाभो भावीति निर्णयं कृत्वा विस|र्जितायां सभायां श्रेयांसोऽपि स्वगृहे गत्वा गवाक्षस्थितः स्वामी किश्चिन्न लातीति लोककोलाहलं श्रुत्वा प्रेक्ष्य च प्रभुं मयेदृशं | दर्शनं क्वापि दृष्टमस्तीति स्मरन् जातिस्मरणं प्राप्य अहो अहं पूर्वभवे प्रभोः सारथिः प्रभुणा सार्द्ध दीक्षां गृहीतवान् , तत्र वज्र| सेनतीर्थङ्करेणोक्तमासीद्-यदयं वज्रनाभो भरतक्षेत्रे प्रथमस्तीर्थकरो भविष्यति, स एष प्रभुः, तदानीं च तस्यैकः पुरुषः इक्षुरस| घटानढौकयत् , तत इक्षुरसघटं च गृहीत्वा-प्रभो! गृहाणेमां योग्यां भिक्षामिति श्रेयांसोऽवदत् , स्वामिनाऽपि करौ प्रसारितो, निक्षिप्तश्च सर्वोऽपि रसस्तेन, न चात्र बिन्दुरप्यधः पतति, किन्तूपरि शिखा वर्द्धते, यतः-माइज घडसहस्सा अहवा मायंति सागरा | सत्वे । जस्सेयारिस लद्धी सो पाणिपडिग्गहो होइ ॥१॥ अत्र कविघटना-स्वामी दक्षिणं हस्तं प्राह-भो मिक्षां गृहाण, तदा दक्षिणोऽवादीत्-दातृहस्ताधः कथं भवामि?, यतः पजाभोजनदानकलाग्रहणपाणिग्रहणशान्तिकपौष्टिकस्थापनाहस्तकार्पणनाटकमुखशुचिकरणादिकार्यकर्ताऽस्मि, कथं भिक्षां गृहामीत्युक्त्वा दक्षिणहस्ते स्थिते वामहस्तोऽवादीत-सङ्ग्रामसम्मुखमङ्कगणनं वामाङ्गशयनं द्यूतादिक्रीडनाशुचिशुचिकरणादिकार्यकर्ताऽस्मि, अहं कथं मिक्षां गृह्णामि?, इति स्वस्वगुणान् कथयन्तौ वर्ष यावत् सम्बोध्य द्वावपि हस्तौ मेलयित्वा श्रेयांसप्रदत्तेनेक्षुरसेन प्रभुः सांवत्सरिकतपःपारणमकरोत , तत्र सार्द्धद्वादशकोटिसुवर्ण१ गन्धोदककुसुम२वस्त्रवृष्टिः३ आकाशेऽहोदानमिति घोषणं४ देवदुन्दुभिशब्द५ थेति पञ्च दिव्यानि जातानि, ततो राजादिलोकाः सर्वेऽपि तत्रागताः,
PITALITAMINA
a niliHIS IllitAASANIEILLImma NIONLININDIAHINDRAPURI AMRIDHI ROID
%3D

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246