Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 252
________________ २३२ जम्बूस्वामिचरिते उक्तं च- " कंम्मत्तणेण एकं दव्वं भावं तु होइ दुविहं तु । तं पुण अहविहं वा अडदालसयं असंखलोगं वा ॥ १ ॥ " तारतम्यात्मकं लक्ष्य (यं) निकृष्टोत्कृष्टमध्यमं । निरवशेषाच्वेषां हि वेदितव्यं महागमात् ॥ १२० ॥ सर्व हेयं विजानीयादाश्रवं परमार्थतः । एको निराश्रवः स्वात्मा ग्राह्य शुद्धानुभूतितः ॥ १२१ ॥ ॥ इति आश्रवानुप्रेक्षा ॥ आश्रवाणां निरोधो यः संवरः प्रोच्यते बुधैः । द्रव्यभावविभेदेन सोऽपि द्वैविध्यमश्नुते ।। १२२ ।। येनशिन कषायाणां निग्रहः स्यात्सुदृष्टिनाम् । तेनशिन प्रयुज्येत संवरो भावसंज्ञकः ।। १२३ ॥ उक्तं च " वेदसमिदीगुत्तीओ धम्माणुषहापरीसहजओ य । चारितं बहुभेया णायव्वा भावसंवरविसेसा ॥ १ ॥ " कर्मणामाश्रयो भावो रागादीनामभावतः । तारतम्यतया सोऽपि प्रोच्यते द्रव्यसंवरः ।। १२४ ॥ १ कर्मस्वरूपेण एकं द्रव्यं भावं तु होदि द्विविधं तु । तत् पुनः अष्टविधं वा अष्टचत्वारिंशत् असंख्यलोकं वा ॥ गोम्मटसारकर्मकाण्डे ॥ २ व्रतसमितिगुप्तयः धर्मानुप्रेक्षापरीषड्जयश्च । चारित्रं बहुभेदाः ज्ञातव्याः भावसंवरविशेषाः ॥ द्रव्यसंग्रहे ॥

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288