Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
द्रव्यविशेषप्रज्ञापकस्तृतीयः परिच्छेदः
शुद्धैकाणुसमाश्रितास्त्रिसमये तत्रैव चाणौ स्थिताचत्वारः किल रूपगंधरससंस्पर्शा ह्यनंतांगिनः । मूर्तद्रव्यगुणाश्च पुद्गलमया भेदप्रभेदैस्तु ते । येनैके परिणामिनोऽपि नियमाद्ध्रौव्यात्मकाः सर्वदा ॥ २२ ॥ पर्यायः परमाणुमात्र इति संशुद्धोऽन्वयाख्यः स हि रूक्षस्निग्धगुणैः प्रदेशचयजो शुद्ध मूर्त्यात्मनः । द्रव्यस्येति विभक्तनीतिकथनात्स्याद्भेदतः स त्रिधा सूक्ष्मांतर्निदनेकधा भवति सोपीदेति भावात्मकः ॥ २३ ॥ शब्दो बन्धः सूक्ष्मस्थली संस्थानभेदसंतमसम् । छायातपप्रकाशाः पुद्गलवस्तोरशुद्धपर्यायाः ॥ २४ ॥ शुद्धेऽणौ खलुरूपगंधरससंस्पर्शाश्च ये निश्चितास्तेषां विंशतिधा भिदो हि हरितात्पीतो यथाम्रादिवत् । तद्भेदात्परिणामलक्षणबलाद्भेदान्तरे सत्यतो धर्माणां परिणाम एष गुणपर्यायः स शुद्धः किल ।। २५ ।। तत्राणौ परमे स्थिताश्च रसरूपस्पर्शगंधात्मकाः (१) एकैकद्वितयैकभेदवपुषः पर्यायरूपाश्च ये ।
२५७
पंचैवेति सदा भवति नियमोऽनंताश्च तच्छक्तयो पर्यायः क्षतिवृद्धिरूप इति तासां धर्मसंज्ञोऽमलः (१) ॥ २६ ॥
स्कंधेषु व्यणुकादिषु प्रगतसंशुद्धत्वभावेषु च
ये धर्माः किल रूपगंधरससंस्पर्शाश्च तत्तन्मयाः । तेषां च स्वभिदो भिदेतरतनुर्भावश्च तच्छक्तयो ह्यर्थस्तत्क्षतिवृद्धिरूप इति चाशुद्धश्च धर्मात्मकः ॥ २७ ॥
१७
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288