Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 285
________________ शक्यो वारयितुं जलेन हुतभुक् छत्रेण मूर्यातपो नागेन्द्रो निशिांकुशेन समदो दण्डेन गोगर्दभाः। व्याधिर्भपजसंग्रहैश्च विविधैर्मत्रप्रयोगैविषं सर्वस्यौषधमास्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधं ॥३॥ ज्ञानं मददर्पहरं तेनैव माद्यति तस्य को वैद्यः । अमृतं यस्य विषायते तस्य चिकित्सा कथं क्रियते ॥ ४ ॥ अथ प्रशस्तिका वर्षे वेदाब्धिसिद्धीन्दु (१८४४) मित अमले (?) श्रावणे मासि पूर्वे कृष्ण पक्षे हि षष्ट्यां निजविमलकरात्पार्श्वनाथस्य गेहे। वृन्दावत्यां नगर्या व्यसनहरिनृपे श्रीसुरेन्द्रादिकीर्तिः नाम्ना भट्टारकेन्द्रो बुधपतिमहितोऽमुं लिलेखातिभावात् ॥ १ ॥ जिनादिदासस्य विपश्चितोऽत्र पुस्तादशुद्धाच लिपीकृतं मे शीघ्रात्तथाज्ञानतया ह्यशुद्धं यल्लेखितं तद्विवुधैर्विशोध्यम् ॥ २॥ विपश्चिच्छात्रसर्वसुखाख्याध्ययनार्थं लिपीकृतं मया ।

Loading...

Page Navigation
1 ... 283 284 285 286 287 288