Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
सप्ततत्त्वनवपदार्थप्रतिपादकश्चतुर्थः परिच्छेदः २६३
शुद्धादुपयोगादिह निश्चयतपसश्च संयमादेव । गलति पुरा बर्द्ध किल कम्मैषा द्रव्यनिर्जरा गदिता ॥ १३ ॥ मोक्षो लक्षित एव हि तथापि संलक्ष्यते यथाशक्ति । भावद्रव्यविभेदाद्विविधः स स्यात्समाख्यातः ॥ १४ ॥ सर्वोत्कृष्टविशुद्धिर्वोधमती कृत्स्नकर्मलयहेतुः ।
ज्ञेयः स भावमोक्षः कर्मक्षयजा विशुद्धिरथ च स्यात् ॥ १५ ॥ परमसमाधिबलादिह बोधावरणादिसकलकर्माणि । चिदेशेभ्यो भिन्नीभवंति स द्रव्यमोक्ष इह गीतः ।। १६ ।। देशेनैकेन गलेत्कर्मविशुद्धिश्च देशतः सेह । स्यान्निर्जरा पदार्थो मोक्षस्तौ सर्वतो द्वयोभिरिति ॥ १७ ॥ शुभभावैर्युक्ता ये जीवाः पुण्यं भवत्यभेदात्ते । सक्केशैः पापं तद्द्द्रव्यं द्वितीयं च पौगलिकम् ।। १८ ।। ये जीवाः परमात्मबोधपटवः शास्त्रं त्विदं निर्मलं नाम्नाध्यात्मपयोजभानु कथितं द्रव्यादिलिंगं स्फुटम् । जानन्ति प्रमितेश्च शब्दवलतो यो वार्यतः श्रद्धया ते सद्दृष्टियुता भवंति नियमात्संवांतमोहाः स्वतः ।। १९ ।। अर्थाश्चाद्यवसानवर्जतनवः सिद्धाः स्वयं मानतस्तलक्ष्मप्रतिपादकाच शब्दा निष्पन्नरूपाः किल । भो विज्ञाः परमार्थतः कृतिरियं शब्दार्थयोश्च स्वतो नव्यं काव्यमिदं कृतं न विदुषा तद्राजमल्लेन हि । इति श्रीमदध्यात्मकमलमार्त्तण्डाभिधाने शास्त्रे सप्ततत्त्वनवपदार्थप्रतिपादक चतुर्थः परिच्छेदः ।
इति अध्यात्मक मलमार्त्तण्डः समाप्तः ।
ত
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288