Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
२६२
अध्यात्मकमलमार्तण्डे
सर्वेप्येवं कषायानपरमिह निदानानि कर्मागमस्य बंधस्यापीह कर्मस्थितिमतिरिति यावन्निदानानि भावात् ||५|| सिद्धाः कार्म्मणवर्गणाः स्वयमिमा रागादिभावैः किल ता ज्ञानावरणादिकर्मपरिणामं यांति जीवस्य हि । सर्वांगं प्रति सूक्ष्मकालमनिशं तुल्यप्रदेशस्थिताः स्याद्द्रव्याश्रव एष एकसमये बन्धश्चतुर्भान्वियः ॥ ६॥ प्रकृतिस्थित्यनुभागप्रदेश भेदाच्चतुर्विधो बंधः । प्रकृतिप्रदेशबन्धौ योगात्स्यातां कर्षायतश्चान्यौ ॥ ७ ॥ युगपद्योगकषायौ चिक्कणपटकंपवंचितः स्याताम् । बंधोऽपि चतुर्धा स्याद्धेतुप्रतिनियतशक्तितो भेदः ॥ ८ ॥ त्यागो भावाश्रवाणां जिनवरगदितः संवरो भावसंज्ञो भेदज्ञानाच्च स स्यात्स्वसमयवपुषस्तारतम्यः कथंचित् । सा शुद्धात्मोपलब्धेः स्वसमयवपुषा निर्जरा भावसंज्ञा नाम्ना भेदोनयोः स्यात्करणविगतः कार्यनाशप्रसिद्धेः ॥ ९ ॥ एकः शुद्धो हि भावो ननु कथमिति जीवस्य शुद्धात्मबोधाद्भावाख्यः संवरः स्यात्स इति खलु तथा निर्जरा भावसंज्ञा । भावस्यैकत्वतस्ते मतिरिति यदि तन्नैव शक्तिर्द्वयोः स्यात्पूर्वोपात्तं हि कर्म स्वयमिह विगलेतैव बध्येत नव्यं ॥ १० ॥ स्नेहाभ्यंगाभावे गलति रजः पूर्वबद्धमिह नूनम् । नाप्यागच्छति नव्यं यथा तथा शुद्धभावतस्तौ द्वौ ॥ ११ ॥
चिदचिद्भेदज्ञानाभिर्विकल्पात्समाधितश्चापि कर्मागमननिरोधस्तत्काले द्रव्यसंवरो गीतः ।। १२ ॥
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288