Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
अध्यात्मकमलमार्त्तण्डे
लोकाकाशमितप्रदेशवपुषौ धर्मात्मकौ संस्थितौ नित्यौ देशगणप्रकं परहितौ सिद्धौ स्वतंत्राच्च तौ धर्माधर्मसमायाविति तथा शुद्धौ त्रिकाले पृथक् स्यातां द्वौ गुणिनावथ प्रकथयामि द्रव्यधर्मास्तयोः ॥ २८ ॥ शुद्धा देशगुणाश्च पर्ययगणा एतद्धि सर्व समम् द्रव्यं स्यान्नियमादमूर्तममलं धर्म ह्यधर्मे च तत् तद्देशाः किल लोकमात्रगणिता पिंडीवभूवुः स्वयं पर्यायो विमलः स एष गुणिनोऽधर्मस्य धर्मस्य च ॥ २९ ॥ धर्मद्रव्यगुणो हि पुद्गलचितोश्चिद्द्रव्ययोरात्मभा गच्छद्भावव तोर्निमित्तगतिहेतुत्वं तयोरेव यत् । मत्स्यानां हि जलादिवद्भवति चौदास्येन सर्वत्र च प्रत्येकं सकृदेव शश्वदनयोर्गत्यात्मशक्तावपि ॥ ३० ॥ तिष्ठद्भाववतोश्च पुद्गलचितोश्चौदास्यभावे नयद्धेतुत्वं पथिकस्य मार्गमटतरच्छाया यथावस्थितेः । धर्मो धर्मसमाह्वयस्य गतमोहात्मप्रदिष्टः सदा शुद्धोऽयं सकृदेव शश्वदनयोः स्थित्यात्मशक्तावपि ॥ ३१ ॥ धर्माधर्माख्ययोर्वै परिणमनमदस्तत्त्वयोः स्वात्मनैव धर्मशैश्च स्वकीयागुरुलघुगुणतः स्वात्मधर्मेषु शश्वत् सिद्धात्सर्वज्ञवाचः प्रतिसमयमयं पर्ययः स्यादद्वयोश्च शुद्धो धर्मात्मसंज्ञः परिणतिमयतोऽनादिवस्तुस्वभावात् ॥ ३२ ॥
irs
गगनतत्त्वमनंतमनादिमत्सकलतत्त्वनिवासदमात्मगं द्विविधमाह कथंचिदखंडितं किल तदेकमपीह समन्वयात् ||३३||
२५८
Loading... Page Navigation 1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288