Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 279
________________ द्रव्यविशेषप्रज्ञापकस्तृतीयः परिच्छेदः २५९ यावत्स्वाकाशदेशेषु सकलचिदचित्तत्त्वसत्तास्ति नित्या 3112 तावंतो लोकसंज्ञा जिनवरगदितास्तद्वहिर्ये प्रदेशाः । सर्वे तेऽलोकसंज्ञा गगनमभिदपि स्वात्मदेशेषु शश्वद्भेदार्थाच्चोपलंभाद्द्द्विविधमपि च तन्नैव बाध्येत हेतोः ॥ ३४ ॥ अंतातीतप्रदेशा गगनगुणिन इत्याश्रितास्तत्र धर्मास्वत्पर्यायाश्च तत्त्वं गगनमिति सदाकाशधर्मे विशुद्धम् । द्रव्याणां चावगाहं वितरति सकृदेतद्धि यत्तु स्वभावा द्धर्माशैः स्वात्मधर्मात्प्रतिपरिणमनं धर्मपर्यायसंज्ञम् ।। ३५ ।। गगनानंतांशानां पिण्डीभावः स्वभावतो भेद्यः । पर्यायो द्रव्यात्मा शुद्धो नभसः समाख्यातः || ३६ ॥ प्रोक्तं द्रव्यं प्रमाणाद्भवति स समयाणुः किल द्रव्यरूपो लोकैकैकदेशस्थित इति नियमात्सोऽपि चैकैकमात्रः । संख्यातीताश्च सर्वे पृथगिति गणिता निश्चयं कालतत्वं भाक्तः कालो हि यः स्यात्समयघटिकावासरादिः प्रसिद्धः |३७| द्रव्यं कालाणुमात्रं गुणगणकलितं चाश्रितं शुद्धभावैः तच्छुद्धं कालसंज्ञं कथयति जिनपो निश्चयाद्द्रव्यनीतेः ॥ द्रव्याणामात्मना सत्परिणमनमिदं वर्तना तत्र हेतुः कालस्यायं च धर्मः स्वगुणपरिणतिर्धर्मपर्याय एषः ॥ ३८ ॥ पर्यायो द्रव्यात्मा शुद्धः कालाणुमात्र इति गीतः । सोनेहसोऽणवश्वासंख्याता रत्नराशिरिव च पृथक् ।। ३९ ।। पर्यायः किल जीवपुद्गलभवो यो शुद्धशुद्धाहयस्तस्यैतञ्चलनात्मकं च गदितं कर्मक्रिया तन्मता १ कालो इत्यपि ।

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288