Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
अध्यात्मकमलमार्तण्डः
प्रथमः परिच्छेदः
प्रणम्य भावं विशदं चिदात्मकं समस्ततस्त्वार्थविदं स्वभावतः । प्रमाणसिद्धं नययुक्तिसंयुतं, विमुक्तदोषांवरणं समंततः ॥ १ ॥
-
१ नत्वा । २ परमात्मानम् । अत्र भावशब्दः आत्मवाचको ग्राह्यः । "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु" इत्यमरः । ३ निर्मलम् । अष्टादशदोषरहितम् । ४ चिश्चेतना एव आत्मा स्वरूपं यस्य तं चिदात्मकं । चेतनखरूपमित्यर्थः । ५ तस्य भावस्तत्त्वं । योऽर्थो यथा व्यवस्थितस्तस्यार्थस्य तथा भावो भवनं तत्त्वमुच्यते । अर्यते गम्यते ज्ञायते निश्चीयते इत्यर्थः, तत्त्वेनार्थस्तत्त्वार्थः । तत्त्वमेव वार्थस्तत्त्वार्थः । तत्त्वार्थं परमार्थभूतपदार्थ । अत्र तत्त्वार्थेन जीवादिपदार्था ज्ञेयाः । नत्वर्थशब्देन प्रयोजनाभिधेयधनादिकं ग्राह्यं तदर्थस्य मोक्षप्राप्तेरयुक्तत्वात् । अर्थशब्दस्यानेकार्थत्वं । तदुक्तम् — हेतौ प्रयोजने वाच्ये निवृत्तौ विषये तथा । प्रकारे वस्तुनि द्रव्ये अर्थशब्दः प्रवर्तते । १ । समस्ताश्च ते तत्त्वार्थाः पदार्थास्तान् वेत्ति जानातीति समस्ततत्त्वार्थवित् तम् । ६ स्वाभिप्रायात्स्वकीयचेष्टातो वा । ७ प्रमाणैः प्रत्यक्षपरोक्षादिभिः सिद्धं परमात्मखरूपम् । ८ साध्यविशेषस्य नित्यत्वानित्यत्वादेर्याथात्म्यप्रापण निपुणप्रयोगो यथावस्थितस्वरूपेण प्रदर्शनसमर्थन व्यापारो नय उच्यते; ज्ञायकजीवस्याभिप्राय इत्यर्थः । नयंति प्रापर्यंति प्रमाणैकदेशानिति नयास्तेषां युक्तिर्योजनं विचित्रनयानां संयोजनम् अथवा नयानां नैगमादीनां युक्तयस्तत्र सर्वत्र संयुतं युक्तम् । ९ संसारिजीवस्य दोषानामावरणमाच्छादनं वर्ततऽतो जीवस्य साक्षात्कारस्वशक्तिरूपश्चमत्कारो न दृश्यते परमात्मनस्तन्न। अथवा दोषा रात्रिरंधकारभूता लक्षणया अंधकारस्तत्, आवरणं ज्ञानावरणदर्शनावरणद्वयं । विमुक्तं त्रुटित दोषावरणं यस्य तम् । अर्थात् केवलज्ञानदर्शनराजितम् । १० समंततञ्चतुर्गतिभ्रमणविवर्त्तनरहितत्वाद्विमुक्तदोषावरणमिति । अथवा समंततो मनोवाक्काययोगेभीवं प्रणम्येति बोद्धधम् ।
१६
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288