Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
तृतीयः परिच्छेदः ।
जीवो द्रव्यं प्रमितिविषयं तद्गुणाश्चेत्यनन्ताः पर्यायास्ते गुणिगुणभवास्ते च शुद्धा ह्यशुद्धाः। प्रत्येकं स्युस्तदखिलनयाधीनमेव स्वरूपम् तेषां वक्ष्ये परमगुरुतोऽहं च किंचिज्ज्ञ एवं ॥१॥ प्राणैर्जीवति यो हि जीवितचरो जीविष्यतीह धुवं जीवः सिद्ध इतीह लक्षणबलात्प्राणास्तु संतानिनः । भाषद्रव्यविभेदतो हि बहुधा जंतोः कथंचित्त्वतः साक्षात् शुद्धनयं प्रगृह्य विमला जीवस्य ते चेतना ॥२॥ संख्यातीतप्रदेशास्तदनुगतगुणास्तद्भवाश्चापि भावाः एतद्रव्यं हि सर्व चिदभिदधिगमात्तंतुशोक्ल्यादिपुजे । सर्वस्मिन्नेव बुद्धिः पट इति हि यथा जायते प्राणभाजां सूक्ष्म लक्ष्म प्रवेत्ति प्रवरमतियुतः कापि काले न चाज्ञः ॥३॥ जीवद्रव्यं यथोक्तं विविधविधियुतं सर्वदेशेषु यावद्भावैः कर्मप्रजातः परिणमति यदा शुद्धमेतन तावत् । भावापेक्षाविशुद्धो यदि खलु विगलेद्घातिकर्मप्रदेशः साक्षाद्रव्यं हि शुद्धं यदि कथमपि वा घातिकापि नश्येत् ॥४॥ संख्यातीतप्रदेशेषु युगपदनिशं विश्नवश्चिद्विशेषास्ते सामान्या विशेषाः परिणमनभवानेकभेदप्रभेदाः। १ कथंचित्तु ते इत्यपि । २ विष्लवंश्चित् इत्यपि ।
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288