Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
द्रव्यसामान्यलक्षणसमुद्योतको द्वितीयः परिच्छेदः २५१
यो द्रव्यान्तरसमिति विनैव वस्तुप्रदेशसंपिण्डः। नैसर्गिकपर्यायो द्रव्यज इति शेषमेव गदितं स्यात् ।। ११ ॥ द्रव्यान्तरसंयोगादुत्पन्नो देशसंचयो द्वयजः । वैभाविकपर्यायो द्रव्यज इति जीवपुद्गलयोः ॥ १२ ॥ एकैकस्य गुणस्य हि येऽनंतांशाः प्रमाणतः सिद्धाः। तेषां हानिवृद्धिर्वा पर्याया गुणात्मकाः स्युस्ते ॥ १३ ॥ धर्मद्वारेण हि ये भावा धोशात्मका (हि) द्रव्यस्य । द्रव्यांतरनिरपेक्षास्ते पर्यायाः स्वभावगुणतनवः ।।१४॥ अन्यद्रव्यनिमित्ताये परिणामा भवंति तस्यैव । धर्मद्वारेण हि ते विभावगुणपर्या (य) या द्वयोरेव ॥ १५॥ कैश्चित्पर्ययविगमैव्येति द्रव्यं ह्युदेति समकाले । अन्यैः पर्ययभवनधर्मद्वारेण शाश्वतं द्रव्यम् ॥ १६ ॥ बहिरंतरंगसाधनसद्भावे सति यथेह *तंत्वादिषु । द्रव्यावस्थान्तरो हि प्रादुर्भावः पटादिवन्न सतः ॥ १७ ॥ सति कारणे यथास्वं द्रव्यावस्थांतरे हि सति नियमात् । पूर्वावस्थाविगमो विगमश्चेतीह लक्षितो न सतः॥ १८ ॥ पूर्वावस्थाविगमेप्युत्तरपर्यायसमुत्पादे हि । उभयावस्थाव्यापि च तद्भावाव्ययमुवाच तन्नित्यम् ॥ १९ ॥ सद्व्यं सच्च गुणः सत्पर्यायः स्वलक्षणाद्भिन्नाः। तेषामेकास्तित्वं सर्व द्रव्यं प्रमाणतः सिद्धम् ॥ २०॥ ध्रौव्योत्पादविनाशा भिन्ना द्रव्यात्कथंचिदिति नयतः। युगपत्सन्ति विचित्रं स्याद्रव्यं तत्कुदृष्टिरिह नेच्छेत् ॥ २१ ॥ * तत्त्वादिषु इत्यपि ।
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288