Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
२४४
अध्यात्मकमलमार्तण्डे
स्याच्छुद्धात्मोपलब्धः परमसमरसीभावपीयूषतृप्तिः शुक्लथ्यानादिभावापरकरणतनोः संवरानिर्जरायाः ॥ ५॥ सम्यग्दृग्ज्ञानवृत्तं त्रितयमपि युतं मोक्षमार्गो विभक्तासर्व स्वात्मानुभूतिर्भवति च तदिदं निश्चयात्तत्त्वदृष्टेः । एतद्वैतं च ज्ञात्वा निरुपधिसमये स्वात्मतत्त्वे निलीय यो नि दोऽस्ति भूय स्स नियतमचिरोन्मोक्षमा मोति चात्मा ।६। यच्छ्रद्धानं जिनोक्तेरथ नयभजनात्सप्रमाणादवाध्यात्मत्यक्षाच्चानुमानात् कृतगुणगुणिनिीतियुक्तं गुणाढ्यम् ।
१ सम्यग्दर्शनज्ञानचारित्राणि जातित्वादेकवचनमत्र । २ व्यवहारनयाद्दर्शनज्ञानचारित्राणि मोक्षमार्गः । निश्चयात्तत्त्रिकमय आत्मा एव । तदुक्तं-सम्मइंसणणाणं चरण मोक्खस्स कारण जाणे । ववहारा णिचयदो तत्तियमइओ णिओ अप्पा । १। ३ व्यवहारनिश्चयं । ४ उपाधिरहिताचारे । ५ खकीयात्मपदार्थे । ६ आश्लिष्य । लीड संश्लेषणे इतिधातोः। ७ जीवः । ८ इतरभेदरहितः शुद्धटंकोत्कीर्णज्ञायकैकखभावः पुद्गलादिभिभिन्नोऽस्ति । ९ पुनः । १० निश्चयेन । ११ शीघ्रम् । १२ प्राप्नोति । १३ जिनानामुक्तिस्तस्या अर्थाजिनेन्द्रवाक्यात् । १४ नयानां नैगमादीनां भजनात्सेवनानयविचारणादित्यर्थः । १५ किविशिष्टान्नयभजनात् सप्रमाणात्प्रमाणेन सहितात् । १६ वादिन्नतिवादिभिर्वाधतारहितात् । १७ अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा तमक्षमात्मानं | अवधिमनःपर्ययापेक्षया परिमाप्तक्षयोपशम केवलापेक्षया प्रक्षीणावरणं वा प्रतिनियत प्रतिनिश्चितं । “प्रत्यक्षमन्यत्" इति अवधिमनःपर्ययकेवलज्ञानत्रयं प्रत्यक्ष प्रमाणं भवति । केचिदिद्रियव्यापारजनितं ज्ञानं खलु प्रत्यक्ष मन्यते तन्न घटते । कथम् ? इंद्रियज्ञानप्रत्यक्ष सति सर्वज्ञाभावो भवति । सर्वज्ञस्य प्रत्यक्षज्ञानसंभवत्वे सति तेनातीन्द्रियज्ञानवता भवितव्यमिति । परमतेऽप्युक्तम् “अतीन्द्रियज्ञाननिधि” रिति । वस्तूनि संसारेऽनंतानि दूरस्थानि कथमिन्द्रियज्ञानेन गम्यतेऽतो न प्रत्यक्षज्ञानमिन्द्रियजम् । तस्मात् प्रत्यक्षादवधिमनःपर्ययकेवलज्ञानत्रयात् । अबाध्यादिति किम् । अत्रोच्यते-केचन वादिनस्तत्त्वज्ञानं
x भूयात् इत्यपि।
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288