Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
मोक्षमोक्षमार्गलक्षणप्रतिपादकः प्रथमः परिच्छेदः २४५
तार्थानां स्वभावाद ध्रुवविगमसमुत्पादलक्ष्ममभाजां तत्सम्यक्त्वं वदंति व्यवहरणनयात्कर्मनाशोपशान्तेः ॥ ७ ॥ एषोऽहं भिलक्ष्मी हगवगमचरित्रादिसामान्य रूपो ह्यन्यद्यत्किंचिदाभांति बहुगुणिगुणवृत्तिलक्ष्म पैरं तत् । धर्म चाधर्ममाकाशसमुख गणद्रव्यजीवांतरीणि
प्रमाणं इति मन्यते । केचित्तु संन्निकर्षः प्रमाणं इति मन्यन्ते । संनिकर्ष इति कोऽर्थः ? इन्द्रियं विषयश्च तयोः संबंधः संन्निकर्षः तदुभयमपि निराकर्त्तुं मतिश्रुतावध्यादि सूचयितुं अबाध्यादित्युक्तम् । १८ अनुमितिकरणमनुमानं तस्मादनुमानप्रमाणात् । अत्र परोक्षप्रमाणं मतिश्रुतद्वयं बोद्धव्यम् । किंलक्षणं परोक्षं इति चेदुच्यते इन्द्रियानीन्द्रियाणि पराणि प्रकाशादिकं व आदिशब्दात् गुरूपदेशादिकं च परं । मतिश्रुतज्ञानावरणक्षयोपशमश्च परं उच्यते। तत्परं बाह्यहेतुमपेक्ष्य अक्षस्य आत्मनः उत्पद्यते यज्ज्ञानद्वयं तत्परोक्षम् । इन्द्रियानिन्द्रियनिमित्तं तत् । " श्रुतमनिन्द्रियस्य " इतिवाक्यात् । अत्रागमोपमानार्थापत्त्यभावा अंतर्भूताः । १९ कृतं रचितं तत् गुणाश्च गुणिनश्च तेषां निर्णीतिर्निश्चयं तेन युक्तं । २० गुणैनिःशंकतादिभिराढ्यं युक्तम् ।
।
१ नवतत्त्वानां षड्द्रव्याणां वा । २ ध्रुवशब्देन धौव्यं विगमशब्देन व्ययः समुपादशब्देनोत्पादस्तदेव लक्ष्म चिह्नं तत्प्रभजंति तेषामिति । ३ नाशः क्षयः उपशांतिरुपशमो वा नाशोपशांतिः क्षयोपशम इत्यत्र सम्यक्त्वत्रयं परिगृहीतमिति । ४ पृथक्चिहोऽहम् भिन्नः पुगलब, शरीरादिभिन्न इति भावः । ५ दर्शनज्ञानचारित्रादिसामान्यरूपः । ६ हीति निश्वयेन । ७ शुद्धजीवद्रव्यादन्यत्सर्वम् । ८ प्रतिभाति । ९ बहवो गुणिनो द्रव्याथीश्च तेषां गुणाश्च तस्मिन् गुणसामान्यापेक्षयैकवचनमिति । १० प्रवर्तत् ११ | चिह्नम् । १२ अन्यत् । १३ अत्र रसशब्दो द्रव्यवाचकः "रसो गंधे जले वीर्ये तिक्तादौ द्रव्यरागयो” रिति मेदिनीकोषः । १४ मुखे आये व्यवहारकाले गणः संख्या यस्मिन् तन्मुखगणं तत्कालं च तद्द्द्रव्यं च मुखगणद्रव्यं कालद्रव्यं इत्यर्थः । १५ जीवोन्तरो मध्ये यस्मिन् तजीवांतरम् पुद्गलद्रव्यमिति । पञ्चाद्द्वंदः कार्यः । आकाशरसश्च मुखगणद्रव्यं च जीवांतरं चेति ।
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288