Book Title: Jambuswami Charitram
Author(s): Rajmalla Pandit, Jagdishchandra Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 266
________________ अध्यात्मकमलमार्तण्डे मत्तः सर्वे हि भिन्नं परपरिणतिरप्यात्मकर्मप्रजाता ॥ ८॥ निश्चित्येतीह सम्यग्विगतसकलहग्मोहभावः स जीवः । सम्यग्दृष्टिर्भवेनिश्चयनयकथनासिद्धकल्पश्च किंचित् । यद्यात्मा स्वात्मतत्त्वे स्तिमितनिखिलभेदैकतानो बभाति साक्षात्सदृष्टिरेवायमथ विगतरागश्च लोकैकपूज्यः॥९॥ युग्मम् जीवाजीवादितत्त्वं जिनवरंगदितं गौतमादिप्रयुक्तं वर्ऋग्रीवादिमूक्तं सदमुंतविधुसूर्यादिगीतं यथावत् । तत्त्वज्ञानं तथैव स्वपरभिदमलं द्रव्यभावार्थदक्षम् संदेहादिप्रमुक्तं व्यवहरणनयात्संविदुक्तं दृगादि ॥१०॥ स्वात्मन्येवोपयुक्तः परपरिणतिभिच्चिद्गुणग्रामदर्शी चिच्चित्पर्यायभेदाधिगमपरिणतत्वाद्विकल्पावलीढः । सः स्यात्सद्बोधचंद्रः परमनंयगतत्वाद्विरागी कथंचिच्चेदात्मन्येव मग्नश्च्युतसकलनयो वास्तवज्ञानपूर्णः ॥ ११ ॥ १ आत्मनः । २ क्रोधलोभमोहादिपरिणतिः । ३ सिद्धये मोक्षाय कल्प: सज्जः । ४ जिनवरेण गदितं कथितमिति । ५ तदनु गौतमादिभिर्गणधरैः प्रयुक्तं द्वादशांगरूपेण गुंफितम् । ६ कुंदकुंदादिभिरानुपूर्वीमवलम्व्य कथितमिति । ७ अमृतंचद्राद्याचायः गीतं देशितमिति । ८ चिच्छब्देन चेतना । ज्ञानभावेन स्वरूपवेदनमिति ज्ञानचेतना, ज्ञानादन्यत्रेदममिति चेतनं ह्यज्ञानचेतना। सा द्विविधा कर्मकर्मफलचेतना च । तत्र ज्ञानादन्यत्रेदमहं करोमीति चेतनं कर्मचेतना । ज्ञानादन्यत्रेदं चेत यहामति चेतनं कर्मफलचेतना । तत्र ज्ञानचेतना सिद्धानां भवति । संसारिजीवाणामन्ये द्वे भवतः ज्ञानचेतना चेति ज्ञानादिभावेन चेतनाया बहवो भेदा ज्ञेयास्तेषामधिगमो ज्ञानं तत्र परिणतत्वादिति । ९ भेदावलीढः । १० सद्ज्ञानचंद्रः निश्चयज्ञानम् । ११ निश्चयनयत्वात् । १२ सर्वव्यापाररहितः ।

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288