Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 610
________________ मुनिप्रणीता] वर्द्धमानषट्त्रिंशिका। स्याद्वादिनी सकलभावबन्धुरा तिर्यङ्मनुष्यसुरबोधनक्षमा। वाणी तवेश! हरतेऽङ्गिशंसयानायोजनं मुललितार्धमागधी ॥१५॥ स्रग्विणी मण्डली देव ! देवासुराग्रेसराणां नमन्मौलिरिद्धादरा । प्रोल्लसद्भूषणोद्भासितस्वर्धरा पादपीठेऽलठत् तेऽखिला भासुरा ॥१६॥ भवारण्यसञ्चारिणामङ्गभाजां भवन्नाममन्त्रस्मृतौ तत्पराणाम् । त्रिलोकीश ! नेतर्घनांहोभुजङ्गप्रयातं कदाचिन्न ही भीतये स्यात् ॥१७॥ नरेन्द्रवंशस्थमुदारचेतसं विधूतदोषं च समस्तलक्षणम् । भवन्तमासाद्य शिवाङ्गना पति मतान्तरीयान् स्पृहयत्यपीश ! नो॥१८॥ जिनसूर ! भवोर्जितगाढतमो दलयन् प्रतिबोधितभव्यकजः । नृसुरेन्द्रनतोट ककुविदितः प्रकटीकृतमोक्षपथो हृदि मे ॥१९॥ द्रुतविलम्बितमन्थरयानया चकितया सुरदानवयोषिता। जिनपते ! त्वमशंसि जितस्मरः सुरगिरौ जननस्नपनक्षणे ॥ २० ॥ प्रमिताक्षरापि जिन! ते त्रिपदी लघुरप्यहो प्रवरबीजसमा । समपीफलद् गणभृदात्मवने परितृप्तिभाग् जगदभूदखिलम् ॥२१॥ विश्वं परिभ्रम्य विषिण्णचेतसः स्थानान्तराभावत एव सद्गुणाः । सिद्धार्थ ! सिद्धार्थशुभाभिधानकपृथ्वीन्द्रवंशाभरण ! स्थितास्त्वयि ॥२२॥ १ झेया बुधैर्नु ललिता तभी जरौ । २ रैश्चतुर्भिर्युता स्रग्विणी सम्मता । ३ भुजङ्गप्रयातं भवेद् यैश्चतुर्भिः । ४ जतौ तु वंशस्थमुदीरितं जरो । ५ इह तोटकमम्बुधिसैः प्रथितम् । ६ द्रुतविलम्बितमाह नभी भरौ । ७ प्रमिताक्षरा सजससैरुदिता । ८ स्यादिन्द्रवंशा ततजैरसंयुतैः ।

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662