Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 626
________________ घ परिशिष्टम् । ७७ श्रीपार्श्वदेवगणिविरचितवृत्तिविभूषितं श्रीपद्मावत्यष्टकम् । श्रीधर्ममूतिमूरिगुरुभ्यो नमः प्राणिपत्य जिनं देवं श्रीपाच पुरुषोत्तमम् । पद्मावत्यष्टकस्याहं वृत्तिं वक्थे समासतः ॥ १॥ ननु किमिति भवद्भिर्मुनिभिः सद्भिः पद्मावत्यष्टकस्य वृत्तिर्विधीयते ? साऽविरतिः अतः कथं तस्याः सम्बन्धिनोऽष्टकस्य भवतां मुनीनां सतां वृत्तिः कर्तु युज्यते ? । अत्रोत्तरमनुत्तरं वितरामः-यतः सा हि भगवतः सर्वज्ञस्य तीर्थकस्य सर्वोपद्रवरक्षणप्रवणस्य सकलकल्याणहेतोः श्रीपार्श्वनाथस्य शासनरक्षणकारिणी सर्वसत्वभयरक्षणपरायणा अवितथसम्यादर्शनयुक्ता जिनमन्दिररक्षाप्रवर्तिनी सर्वस्यापि त्रिभुवनोदरविवरवर्तिनोलोकस्य मानसानन्दविधायिनी अष्टचत्वारिंशत्सहस्रपरिवारसमन्विता एकावतारा श्रीपार्श्वनाथस्य चरणारविन्दसमराधिनी अतः कथमीदृशायाः पद्मावत्याः सम्बन्धिनोऽष्टकस्य वृत्तिं कुर्वतामस्माकं दूषणजालमारोप्यते वावदकेन भवता ? तस्मानात्र दोषः।। __अथैवं वदिष्यति जञ्जपूकः सन् भवान् यदुत किमिति पूर्वाचार्यप्रणीतस्यास्य मन्त्रस्तोत्रस्य वृत्तिः क्रियते यतो भवतां प्रयोजनाभावात् ? अत्रोच्यते-प्रयोजनं हि त्रिविधम् प्रतिपादयन्ति परवादिकुञ्जरविदारणमृगेन्द्राः सहृदयाः, स्वप्रयोजनम् , परप्रयोजनम् , उभयप्रयोजनं च । तत्र स्वप्रयोजनं नववृत्तप्रमाणस्य लोकप्रसिद्धस्य अस्य मन्त्रस्तोत्रस्यार्थस्मरणलक्षणं विद्यते एव । तथा परप्रयोजनमपि विद्यत एव यतस्ते केचिद् भविष्यन्ति मन्दतमाः पाठका येषामस्या अपि वृत्तेः सकाशाद् बोधो भविष्यति । अत एव उभयप्रयोजनमपि सम्भवत्येव । तस्माद् वृत्तिकरणेऽस्माकं प्रयोजनं विद्यत एव ।

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662