________________
घ परिशिष्टम् ।
७७
श्रीपार्श्वदेवगणिविरचितवृत्तिविभूषितं
श्रीपद्मावत्यष्टकम् ।
श्रीधर्ममूतिमूरिगुरुभ्यो नमः प्राणिपत्य जिनं देवं श्रीपाच पुरुषोत्तमम् । पद्मावत्यष्टकस्याहं वृत्तिं वक्थे समासतः ॥ १॥
ननु किमिति भवद्भिर्मुनिभिः सद्भिः पद्मावत्यष्टकस्य वृत्तिर्विधीयते ? साऽविरतिः अतः कथं तस्याः सम्बन्धिनोऽष्टकस्य भवतां मुनीनां सतां वृत्तिः कर्तु युज्यते ? । अत्रोत्तरमनुत्तरं वितरामः-यतः सा हि भगवतः सर्वज्ञस्य तीर्थकस्य सर्वोपद्रवरक्षणप्रवणस्य सकलकल्याणहेतोः श्रीपार्श्वनाथस्य शासनरक्षणकारिणी सर्वसत्वभयरक्षणपरायणा अवितथसम्यादर्शनयुक्ता जिनमन्दिररक्षाप्रवर्तिनी सर्वस्यापि त्रिभुवनोदरविवरवर्तिनोलोकस्य मानसानन्दविधायिनी अष्टचत्वारिंशत्सहस्रपरिवारसमन्विता एकावतारा श्रीपार्श्वनाथस्य चरणारविन्दसमराधिनी अतः कथमीदृशायाः पद्मावत्याः सम्बन्धिनोऽष्टकस्य वृत्तिं कुर्वतामस्माकं दूषणजालमारोप्यते वावदकेन भवता ? तस्मानात्र दोषः।। __अथैवं वदिष्यति जञ्जपूकः सन् भवान् यदुत किमिति पूर्वाचार्यप्रणीतस्यास्य मन्त्रस्तोत्रस्य वृत्तिः क्रियते यतो भवतां प्रयोजनाभावात् ? अत्रोच्यते-प्रयोजनं हि त्रिविधम् प्रतिपादयन्ति परवादिकुञ्जरविदारणमृगेन्द्राः सहृदयाः, स्वप्रयोजनम् , परप्रयोजनम् , उभयप्रयोजनं च । तत्र स्वप्रयोजनं नववृत्तप्रमाणस्य लोकप्रसिद्धस्य अस्य मन्त्रस्तोत्रस्यार्थस्मरणलक्षणं विद्यते एव । तथा परप्रयोजनमपि विद्यत एव यतस्ते केचिद् भविष्यन्ति मन्दतमाः पाठका येषामस्या अपि वृत्तेः सकाशाद् बोधो भविष्यति । अत एव उभयप्रयोजनमपि सम्भवत्येव । तस्माद् वृत्तिकरणेऽस्माकं प्रयोजनं विद्यत एव ।