________________
७८
तत्राद्यं वृत्तमाह
जैनस्तोत्रसन्दोहे | [ पार्श्वदेवर्गणि
श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योतिचीला करालस्फुरितमुकुरिकाघृष्टपादारविन्दे ! | व्याघ्रोरोल्कासहस्र ज्वलदनलशिखालोलपाशाङ्कुशाढये !
७७
ॐ को ही मन्त्ररूपे ! क्षपितकलिमले ! रक्ष मां देवि ! पद्मे ! ||
"
रक्ष - पालय ! हे देवि ! पद्मावति ! शासनदेवि ! । कम् ? मां ? स्तुतिकर्तारम् । कीदृशे देवि ! ? ' श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला ज्योतिर्वालाकरालस्फुरितमुकुरिकाष्टष्टपादारविन्दे ! ' श्रीर्विद्यते येषां ते श्रीमन्तः श्रीमन्तो गीर्वाणाः श्रीमद्गीर्वाणाः, तेषां चक्रं श्रीमद्गीर्वाणचक्रम्, स्फुटानि च तानि मुकुटानि च स्फुटमुकुटानि, श्रीमद्गीर्वाचक्रे स्फुटमुकुटानि श्रीमद्गीर्वाणचक्रस्फुटमुकुटानि । तटे भवा तटी, तेषां मुकुटानां तटी श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटी । दिव्यानि - प्रधानानि माणिक्यानि, दिव्यमाणिक्यानि तेषां दिव्यमाणिक्यानां माला दिव्यमाणिक्य माला, तासां श्रीमद्गीर्वाणचक्रस्फुट मुकुटतटीनां दिव्यमाणिक्यमाला श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला, तस्या ज्योतिः - तेजः, तस्य ज्वाला श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्य माणिक्यमालाज्योतिर्ज्वाला, तया करालं । स्फुरिता मुकुरिका स्फुरितमुकुरिका, श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योति ज्वालाकरालस्फुरितमुकुरिका । पादावेवाऽरविन्दे घृष्टा चासौ पादारविन्दा च घृष्टपादारविन्दा, श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योतिर्ज्वाला करालस्फुरितमुकुरि कावृष्टपादारविन्दे ! त्रिदशनिकुरम्बस्ल ? चलकिरीटपर्यस्तप्रधानरत्नमालादीप्तिशिखा- रौद्रस्पूर्ण्यमानमुकुरिकया घर्षितचरणेन्दीवर ! पुनरपि कीदृशे ? व्याघ्नोरोल्कासहस्रज्वलदनलशिखालोलपाशाङ्कुशाढये ! ' व्याघ्रोरोश्च ता उल्काश्च व्याघ्रो• रोल्काः तासां सहस्राणि व्याघ्रोरोल्कासहस्राणि । ज्वलंश्चासावनलश्च ज्वलदनलः, तस्य शिखा ज्वलदनलशिखा, व्याघोरोल्का सहस्त्राणि च ज्वलदनलशिखा च, पाशश्च अङ्कुशं च पाशाङ्कुशे, लोले च ते पाशाङ्कुशे च लोलपाशाङ्कुशे, ते च, व्याघ्रोरोल्का सहस्रज्जलदनलशिखालोलपाशाङ्कुशाः, तैः आढ्या व्याघ्रोरोल्का
-