Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 629
________________ जैनस्तोत्रसन्दोहे। [पार्श्वदेवगणिसिद्धिर्भवति। करजापलक्षेण निरन्तरं ध्यायमानेन आरोग्यबुद्धिलाभः । सर्वकार्याणां सिद्धिर्भवति । सुगमम् ॥ इदानी प्रथमवृत्तानन्तरं मालामन्त्रमनेकप्रकारं सप्रपञ्चमाहभित्त्वा पातालमूलं चलचलचलिते ! व्याललीलाकराले ! विद्युद्दण्डप्रचण्डपहरणसहिते ! सद्भुजैस्तर्जयन्ती । दैत्येन्द्र क्रूरदंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे ! मायाजीमूतमालाकुहरितगमने ! रक्ष मां देवि ! पद्मे ! ॥२॥ हे देवि ! पद्मावति ! शासनदेवि ! रक्ष पालय, कम् ? 'माम्' स्तुतिकर्तारम् , कीदृशे देवि ! 'चलचलचलिते !' चलचलचलितं यस्याः सा चलचलचलिता, तस्याः सम्बोधनं चलचलचलिते ! चञ्चलगमने ! इत्यर्थः किं कृत्वा ? — भित्त्वा' विदारयित्वा, किम् ? 'पातालमूलम् ' पातालस्य मूलं पातालमूलम्-असुरभवनमूलमित्यर्थः । पुनरपि कीदृशे ? 'व्याललीलाकराले !' व्यालानां लीला व्याललीला, तया कराला, व्याललीलाकराला, तस्याः सम्बोधनं व्याललीलाकराले !-काकोदरक्रीडारौद्रे ! इत्यर्थः । पुनरपि कथम्भूते ? 'विद्युद्दण्डप्रचण्डप्रहरणसहिते !' विद्युतो दण्डो विद्युदण्डः, तद्वत् प्रचण्डं विद्युद्दण्डप्रचण्डम् , विद्युदण्डप्रचण्डं च तत् प्रहरणं च विद्युद्दण्डप्रचण्डप्रहरणं तेन सहिता विद्युद्दण्डप्रचण्ड प्रहरणसहिता, तस्याः सम्बोधनं क्रियते विद्युद्दण्डप्रचण्डप्रहरणसहिते !-सौदामिनीलकुटसमर्थायुधयुक्ते ! इत्यर्थः । तया' तर्जयन्ती' ताडयन्ती । कम् ? — दैत्येन्द्रम् । दानवेन्द्रम् , कैः ? ' सद् भुजैः' शोभनदोर्दण्डैः । पुनरपि कीदृशे ? 'करदंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे !' क्रूरा चासौ दंष्ट्रा च क्रूरदंष्ट्रा, तस्याः करकटः शब्दविशेषः करदंष्ट्राकटकटः, क्रूरदंष्ट्राकटकटेन घटितः क्रूरदंष्ट्राकटकटघटितः, स्पष्टश्चासौ भीमश्च स्पष्टभीभः, करदंष्ट्राकटकटघटितेन स्पष्टभीमोऽहासो यस्याः सा क्रूरदंष्ट्राकटकटघटितस्पष्टभीमाहासा, तस्याः सम्बोधनं क्रूरदंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे ! । मायाशब्देन

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662