________________
जैनस्तोत्रसन्दोहे। [पार्श्वदेवगणिसिद्धिर्भवति। करजापलक्षेण निरन्तरं ध्यायमानेन आरोग्यबुद्धिलाभः । सर्वकार्याणां सिद्धिर्भवति । सुगमम् ॥ इदानी प्रथमवृत्तानन्तरं मालामन्त्रमनेकप्रकारं सप्रपञ्चमाहभित्त्वा पातालमूलं चलचलचलिते ! व्याललीलाकराले ! विद्युद्दण्डप्रचण्डपहरणसहिते ! सद्भुजैस्तर्जयन्ती । दैत्येन्द्र क्रूरदंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे ! मायाजीमूतमालाकुहरितगमने ! रक्ष मां देवि ! पद्मे ! ॥२॥
हे देवि ! पद्मावति ! शासनदेवि ! रक्ष पालय, कम् ? 'माम्' स्तुतिकर्तारम् , कीदृशे देवि ! 'चलचलचलिते !' चलचलचलितं यस्याः सा चलचलचलिता, तस्याः सम्बोधनं चलचलचलिते ! चञ्चलगमने ! इत्यर्थः किं कृत्वा ? — भित्त्वा' विदारयित्वा, किम् ? 'पातालमूलम् ' पातालस्य मूलं पातालमूलम्-असुरभवनमूलमित्यर्थः । पुनरपि कीदृशे ? 'व्याललीलाकराले !' व्यालानां लीला व्याललीला, तया कराला, व्याललीलाकराला, तस्याः सम्बोधनं व्याललीलाकराले !-काकोदरक्रीडारौद्रे ! इत्यर्थः । पुनरपि कथम्भूते ? 'विद्युद्दण्डप्रचण्डप्रहरणसहिते !' विद्युतो दण्डो विद्युदण्डः, तद्वत् प्रचण्डं विद्युद्दण्डप्रचण्डम् , विद्युदण्डप्रचण्डं च तत् प्रहरणं च विद्युद्दण्डप्रचण्डप्रहरणं तेन सहिता विद्युद्दण्डप्रचण्ड प्रहरणसहिता, तस्याः सम्बोधनं क्रियते विद्युद्दण्डप्रचण्डप्रहरणसहिते !-सौदामिनीलकुटसमर्थायुधयुक्ते ! इत्यर्थः । तया' तर्जयन्ती' ताडयन्ती । कम् ? — दैत्येन्द्रम् । दानवेन्द्रम् , कैः ? ' सद् भुजैः' शोभनदोर्दण्डैः । पुनरपि कीदृशे ? 'करदंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे !' क्रूरा चासौ दंष्ट्रा च क्रूरदंष्ट्रा, तस्याः करकटः शब्दविशेषः करदंष्ट्राकटकटः, क्रूरदंष्ट्राकटकटेन घटितः क्रूरदंष्ट्राकटकटघटितः, स्पष्टश्चासौ भीमश्च स्पष्टभीभः, करदंष्ट्राकटकटघटितेन स्पष्टभीमोऽहासो यस्याः सा क्रूरदंष्ट्राकटकटघटितस्पष्टभीमाहासा, तस्याः सम्बोधनं क्रूरदंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे ! । मायाशब्देन