SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ८१ रचितवृत्तियुतम् ] पद्मावत्यष्टकम् । होकारवीजमुच्यते, ह्रीकारनामगर्भ, तस्य बाह्येषु षोडशदलेषु मायाबीजं संलिख्य धारयेत् । मायाशब्देन मायाबीजमुच्यते, सप्त लक्षाणि जपेत् , सर्वकार्यसिद्धिर्भवति । पुनरपि कीदृशे ? 'मायाजीमूतमालाकुहरितगगने!'' माया एव जीमूताः मायाजीमूताः, तेषां माला मायाजीमूतमाला, तया कुहरितं गगनं यया सा मायाजीमूतमालाकुहरितगगना, तस्याः सम्बोधनं क्रियते मायाजीमूतमालाकुहरितगगने !-ह्रीकारजलधरनिकुरम्बगर्जिताम्बरे ! इत्यर्थः ॥ इदानीं मायानामगर्भितस्य बहिरष्टपत्रेषु ह्रीकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे लिखिला हस्ते बद्ध्वा सर्वजनप्रियो भवति॥१॥ मायाबीजं नामगर्भितस्य बहिरष्टपत्रेषु ह्रींकारं दातव्यम् , कुङ्कुम गोरोचनया भूर्जपत्रे लिखित्वा धारयेत् । बालानां शान्तिकरी रक्षा ॥२॥ यथा, मायानामविद्धं एतदबहिरष्टदलेषु मायाबीजं दातव्यम्, एतद् यन्त्रं कुङ्कममोरोचनया भूर्जपत्रे सुगन्धिद्रव्यैः संलिख्य बाहौ धारणीयं सौभाग्यं करोति ॥ ३ ॥ ॐ नमो भगवति ! पद्मावति ! सूक्ष्मपद्मधारिणी पद्मसंस्थिता देवी प्रचण्डदोर्दण्डखण्डितरिपुचक्रे ! किन्नर-किंपुरुष-गरुड-गन्धर्वयक्षराक्षस-भूतप्रेत-पिशाच-महोरग-सिद्ध-नाग-मनुजपूजिते ! विद्याधरसेविते ! ह्रीं ह्रीं पद्मावति ! स्वाहा । एतन्मत्रेण सर्षपमभिमन्त्रयेदेकविंशतिवारान् वामहस्तेन बन्धनीयम् , सर्वज्वरं नाशयति, भूतशाकिनीज्वरं नाशयति ॥ ॐ नमो भगवती पद्मावती अक्षिकुक्षीमण्डनी उज्जयन्तवासिनी पूर्वद्वार बन्धामि, आग्नेयद्वारं बन्धामि, दक्षिणद्वारं बन्धामि, नैर्ऋतद्वार बन्धामि, पश्चिमद्वारं बन्धामि, वायव्यद्वारं बन्धामि, उत्तरद्वारं बन्धामि, ईशानद्वार बन्धामि, अधोद्वार बन्धामि, ऊर्ध्वद्वार बन्धामि, वक्त्रं बन्धामि,
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy