________________
मुनिप्रणीता] वर्द्धमानषट्त्रिंशिका। स्याद्वादिनी सकलभावबन्धुरा तिर्यङ्मनुष्यसुरबोधनक्षमा। वाणी तवेश! हरतेऽङ्गिशंसयानायोजनं मुललितार्धमागधी ॥१५॥ स्रग्विणी मण्डली देव ! देवासुराग्रेसराणां नमन्मौलिरिद्धादरा । प्रोल्लसद्भूषणोद्भासितस्वर्धरा पादपीठेऽलठत् तेऽखिला भासुरा ॥१६॥ भवारण्यसञ्चारिणामङ्गभाजां भवन्नाममन्त्रस्मृतौ तत्पराणाम् । त्रिलोकीश ! नेतर्घनांहोभुजङ्गप्रयातं कदाचिन्न ही भीतये स्यात् ॥१७॥ नरेन्द्रवंशस्थमुदारचेतसं विधूतदोषं च समस्तलक्षणम् । भवन्तमासाद्य शिवाङ्गना पति मतान्तरीयान् स्पृहयत्यपीश ! नो॥१८॥ जिनसूर ! भवोर्जितगाढतमो दलयन् प्रतिबोधितभव्यकजः । नृसुरेन्द्रनतोट ककुविदितः प्रकटीकृतमोक्षपथो हृदि मे ॥१९॥ द्रुतविलम्बितमन्थरयानया चकितया सुरदानवयोषिता। जिनपते ! त्वमशंसि जितस्मरः सुरगिरौ जननस्नपनक्षणे ॥ २० ॥ प्रमिताक्षरापि जिन! ते त्रिपदी लघुरप्यहो प्रवरबीजसमा । समपीफलद् गणभृदात्मवने परितृप्तिभाग् जगदभूदखिलम् ॥२१॥ विश्वं परिभ्रम्य विषिण्णचेतसः स्थानान्तराभावत एव सद्गुणाः । सिद्धार्थ ! सिद्धार्थशुभाभिधानकपृथ्वीन्द्रवंशाभरण ! स्थितास्त्वयि ॥२२॥
१ झेया बुधैर्नु ललिता तभी जरौ । २ रैश्चतुर्भिर्युता स्रग्विणी सम्मता । ३ भुजङ्गप्रयातं भवेद् यैश्चतुर्भिः । ४ जतौ तु वंशस्थमुदीरितं जरो । ५ इह तोटकमम्बुधिसैः प्रथितम् । ६ द्रुतविलम्बितमाह नभी भरौ । ७ प्रमिताक्षरा सजससैरुदिता । ८ स्यादिन्द्रवंशा ततजैरसंयुतैः ।