________________
जैनस्तोत्रसन्दोहे।
[चतुरधिजय
पद्मोदयेन कुवलयप्रबोधकृत् शान्ता विचित्रमनुदिनं प्रदोषहृत् । मूर्तिर्जिनेश्वर ! तव दोपभोवती चण्डद्युतेरिव हरते तमो घृणिः ॥२३॥ सबोधा निखिलजनमहर्षिणीश! वाणी वर्ण्यनयसुधाप्रवर्षिणी ते । माहात्म्याच्छिवललनीपकर्षिणी नः शं दिश्यादपरमतैरधर्षणीया ॥२४॥ सद्वृत्तपुच्छलतिका नयकेशराव्या दानादिधर्मचतुरहिरमेयशक्तिः।। मिथ्यात्वदुर्धरकरीन्द्रमदापहारे सिंहोता विजयते जिन ! भारती ते॥२५॥ अमलकमलमालामालिनी ते जिनेंद्र ! ।
त्रिभुवनजनचेतोहारिणी ध्वस्तदोषा । जयति विजितरागद्वेषमोहप्रपश्चा।
सकलसुखनिदानं मूर्तिरुत्फुल्लनेत्रा ॥२६॥ कामक्रीडासक्तोऽप्युद्यत्पापव्यापस्ते भक्त्या
प्रत्याख्यानो राज्यश्रीभुक् श्रद्धाशाली सच्चेताः । तीर्थेशत्वं नामाऽबध्नात् त्रैलोक्याच सद्विम्बि
सारो भूपः श्रीसिद्धार्थक्ष्माभुगवंशाकाशार्क ! ॥ २७ ॥ सुरपतिवाणिनीकुचरमापहारिकुम्भैः
सपनमकारि यैरमृतसागराम्बुपूर्णैः । १ प्राज्ञैर्मता तभसजगैः प्रभावती । २ म्नौ जो गस्त्रिदशयतिः प्रहर्षिणीयम् । ३ सिंहोद्धता भवति चेत् तभजा जगौ गः । ४ ननमयययुतेयं मालिनी भोगिलोकैः । ५ कामक्रीडा पञ्च स्युर्मा यस्यां वेदत्रिच्छेदा । ६ नजभजरैः सदा भवति वाणिनी गयुक्तैः ।