________________
દર
जैनस्तोत्रसन्दोहे।
[चतुरविजय
थे भक्त्यात्तभ्रमरविलसितास्त्वत्पादाब्जे जिनप! भविजनाः। तेषां कण्ठे विकिरति सलयं मुक्तिस्त्री स्रक् प्रमुदितहृदया ॥७॥ उत्फुल्लस्रक्शालिनी ते जिनेन्द्र ! मूर्तिस्ततस्वर्णरोचिर्वरेण्या । नक्षत्रालीभागिव स्वर्गिशैलो हर्षोत्कर्षायाहहासङ्गिनोऽपि ॥८॥ देव ! तेऽध्वनि जनप्रतिबोधप्रस्थितस्य तरवोऽपि नदन्ति । भङ्गकोकिलमयूरनिनादैः स्वागतानि विहितप्रणिपाताः ॥९॥ चक्रिकेशवसुरासुरेशितुस्तं श्रियोऽपरिमिताश्च वृण्वते । वाजिवारणरथोद्धता द्रुतं देव ! योऽर्चति तव क्रमाम्बुजम् ॥१०॥ वाद्यगणेन सुकोमलकण्ठ्यो जातमुदो धधोंकृतिपूर्वम् । जन्ममहे जिन ! देववधूट्योऽकार्पुरलं तव सद्गुणगानम् ॥११॥ मदनकषायभवार्तिविखिन्नैस्तव पदतामरंसं भविजीवैः । त्रिभुवनपूज्य ! नितान्तमुदारं हृदि निदधे सलयं जिन ! शान्त्यै॥१२॥ शिवललनाया भविकविवाह इव वरमाला ह्यतिरमणीया । विलसति कण्ठे कुसुमविचित्रा चरमजिन ! स्रक् सुरनिहिता ते ॥१३॥ भक्तिभरेग प्रमुदितहृदया ऽव्याहतनृत्या सततमनुदिनम् । सद्गुणराजी भवदवदवथु गायति नेतस्तव सुरललना ॥ १४ ॥
१ म्भौ लौ गः स्याद् भ्रमरविलसिता । २ शालिन्युक्ता म्भौ नगौ गोऽब्धिलोकैः । ३ स्वागतेति रनभाद् गुरुयुग्मम् । ४ रानराविह रथोद्धता लगौ । ५ दोधकवृत्तमिदं भभभाद् गौः । ६ तदकथि तामरसं नजजैर्यः । ७ नयनययुक्ता कुसुमविचित्रा। ८ चेद् भतनैः सो भवति च ललना।