Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 621
________________ ७४ जैनस्तोत्रसन्दोहे। [श्रीभद्रबाहुअधुना चतुर्थगार्थामाह तुह सम्मत्ते लद्वे चिंतामणिकप्पपायवब्भहिए । पावंति अविग्घेणं जीवा अयरामरं ठाणं ॥ लघुवृत्तिः । तथा ॐ ह्री श्री इत्यक्षरत्रयान्तरितं नाम कृत्वा बाह्ये षोडशपत्राम्बुजमालिख्य पत्रेषु ही श्री प्रत्येकमक्षरद्वयं दातव्यम् , उपरि वा क्षिप ॐ स्वाहा इति मन्त्रेण सर्वतो वेष्टयेत् , ततस्त्रिगुणमायाबीजेनावेष्टनीयमिति । इदमपि पूर्वोक्तमन्त्रयुक्त्यार्चितं दुर्भगानां सौभाग्यं करोति। अपस्मारादिपीडां निवारयति । परं गुरुपादपूजापूर्व सर्वत्रापि प्रवृत्तिः कार्या । अन्यथा सिद्धिर्न भवति । क्रमलोपाच्च ध्रुवमसिद्धिरेवेति पादलिप्तगुरोर्वचः इति तृतीयगाथार्थः ॥ ३ ॥ 'तुह सम्मत्ते० ' व्याख्या-- प्राप्नुवन्ति अविघ्नेन जीवा अजरामरं स्थानम् । क्व सति ? तव सम्यक्त्वे चिन्तामणिकल्पपादपाभ्यधिके लब्धे सति । इति गाथार्थः । अत्रापि सम्प्रदायः कथ्यते आदौ पार्श्वनाथं परिकल्प्य दक्षिणे धरणेन्द्रं वामे पद्मावती परिकल्प्य उपरि ब्रह्माणं अधो नागनामानि कल्पयित्वा वलयं दत्वा तदुपरि अष्टदलाम्बुजं प्रत्येकं नमिऊण १ पास २ विसहर ३ वसह ४ जिण ५ फुलिंग ६ ह्रौ ७ नमः ८ आलिख्य बाह्ये च षोडश विद्यादेवीनाम एकैकस्वरसहित षोडशदलकमलमालिख्य उपरि चतुर्विंशतिदलकमलं मरुदेवी-विजया-सेनाइत्यादिनामसहितमालिख्य ह्रीकारेण वेष्टय प्रहदिक्पालाभिधानान्वितं कल्पयित्वा सुरभिद्रव्यैरालिख्य सुरभिपुष्पैनिरन्तरं नियमतः पूजनीयम् । लघुदेवकुलमिदम् । सर्वार्थसाधकं भवति । पूजामन्त्रः पूर्वोक्त एव गुरुमुखाज्ज्ञातव्यः । गुरुपादपूजा प्रचुरभोगः कार्यः ।। इति चतुर्थगाथार्थः ॥ ४ ॥

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662